________________
५८४
विषकुम्भः, पुण्यास्त्रवणकारणत्वेन विभवोत्पादनान्मदम तिमोहादिविधा
नात् । यथाहु:
पुणेण होइ विहओ विहवेण मओ मरण मइमोहो । महमोहेण य पावं तं पुण्णं अम्ह मा होउ ॥
अनगारधर्मामृते—
किंच, प्रतिक्रमणमित्यत्र ककाररेफसंयोगपरत्वेन प्राणिकारस्तद्गुरुत्वादार्याछन्दोभङ्गो न शक्यः शिथिलोच्चारणस्य विवक्षितत्वात् । यथेह - वित्तैर्येषां प्रतिपदमियं पूरिता भूतधात्री, निर्जित्यैतद्भुवनवलयं ये विभुत्वं प्रपन्नाः । तेप्येतस्मिन् गुरुवचहदे बुद्बुदस्तम्बलीलां, धृत्वा धृत्वा सपदि विलयं भूभुजः संप्रयाताः ॥
तथा
datang
भ्रमति भ्रमरकान्ता नष्टकान्ता वनान्ते ।
शत्रोरपत्यानि प्रियंवदानि नोपेक्षितव्यानि बुधैः कदाचित् । जिनवरप्रतिमानां भावतोहं नमामि । इत्यादौ च । मुमुक्षोः सकलकर्मसंन्यासभावनापुरस्सरं सकलकर्मफल संन्यासभावनामभिनयति
प्रतिक्रमणमालोचं प्रत्याख्यानं च कर्मणाम् ।
भूतसद्भाविनां कृत्वा तत्फलं व्युत्सृजेत् सुधीः ॥ ६४ ॥
सुधीः सम्यग्ज्ञानभावनानिष्ठः साधुयुत्सृजेत् । किं तत् ? तत्फलं तेषां कर्मणां ज्ञानावरणादीनां फलं तत्फलं ज्ञानप्रच्छादकत्वादि । किं कृत्वा ? कृत्त्वा विधाय । किं तत् ? प्रतिक्रमणम् । न केवलम्, आलोचनम् । न केवलं, प्रत्याख्यानं च तेषां कर्मणां ज्ञानावरणादीनाम् । किंविशिष्टानाम् ? भूतसद्भाविनां वृत्तवर्तमानवर्तिष्यमाणानाम् । भूतानि च सन्ति च भावीनि च भूतसद्भावीनि, तेषाम् । इतो विस्तरः - प्रतिक्रमणं
१ पुण्येन भवति विभवो विभवेन मदो मदेन मतिमोहः ।
मतिमोहेन च पापं तत्पुण्यमस्मभ्यं मा भवतु ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org