SearchBrowseAboutContactDonate
Page Preview
Page 588
Loading...
Download File
Download File
Page Text
________________ अष्टमोऽध्यायः । तेन सर्वोपि दोषो विशोध्येत । ते हि सर्वेपि कर्मघातसमर्थाः। तथा चोक्तम् स प्रतिक्रमणो धर्मो जिनयोरादिमान्त्ययोः। अपराधे प्रतिक्रान्तिर्मध्यमानां जिनेशिनाम् ॥ यदोपजायते दोष आत्मन्यन्यतरत्र वा। तदैव स्यात्प्रतिक्रान्तिर्मध्यमानां जिनेशिनाम् ॥ ईर्यागोचरदुःस्वप्नप्रभृतौ वर्ततां नवा । पौरस्त्यपश्चिमाः सर्व प्रतिक्रामन्ति निश्चितम् ॥ मध्यमा एकचित्ता यदमूढदृढबुद्धयः। आत्मनानुष्ठितं तस्माद्गहमाणाः सृजन्ति तम् ॥ पौरस्त्यपश्चिमा यस्मात्समोहाचलचेतसः। ततः सर्व प्रतिक्रान्तिरन्धोश्वोत्र निदर्शनम् ।। प्रतिक्रमणादेरधस्तनभूमिकायामनुष्ठाने मुमुक्षोरुपकारः स्यादननुष्टाने चापकारो भवेत् । उपरिमभूमिकायां तु तदनुष्ठानेपकार एव भवेदित्युपदेशार्थमाह प्रतिक्रमणं प्रतिसरणं परिहरणं धारणा निवृत्तिश्च । निन्दा गहाँ शुद्धिश्चामृतकुम्भोन्यथापि विषकुम्भः ॥६३॥ प्रतिक्रमणं दण्डकोच्चारणलक्षणं द्रव्यरूपम् । प्रतिसरणं गुणेषु प्रवृत्तिलक्षणा सारणा। परिहरणं दोषेभ्यो व्यावृत्तिलक्षणा हारणा । धारणा चित्तस्थिरीकरणम् । निवृत्तिरन्यत्र गतचित्तस्य पुनर्व्यावर्तनम् । शुद्धिः प्रायश्चित्तादिनात्मनः शोधनम् । भवति । कोसौ ? अमृतकुम्भ: प्रतिक्रमणाद्यष्टकमधस्तनभूमिकायाममृतकुम्भ इव चित्तप्रसादाल्हादवि. धानात् । कस्य ? साधोः । किं किम् ? प्रतिक्रमणं, प्रतिसरणं, परिहरणं, धारणा, निवृत्तिर्निन्दा, गर्दा, शुद्धिश्चेत्यष्टौ। पूर्वश्वः पादपूरणे । उत्तरश्चः समुच्चये । तथा भवति । कोसौ ? विषकुम्भः । कथम् ! अन्यथा अप्रतिक्रमणादिप्रकारेण यतेवृत्ते, पापानुबन्धनिबन्धनत्वेन मोहसंतापादि विधानात् । अपिशब्दादुपरितनभूमिकायां प्रतिक्रमणादिरपि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003098
Book TitleAnagar Dharmamrutam
Original Sutra AuthorN/A
AuthorAshadhar, Bansidhar Shastri, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1919
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy