________________
५८२
अनगारधर्मामृते
प्रतिक्रमणप्रयोगविधिमाह
निन्दागर्हालोचनाभियुक्तो युक्तेन चेतसा । पठेद्वा शृणुयाच्छुद्ध्यै कर्मन्नान्नियमान् समान् ॥ ६२ ॥
पठेदुच्चरेत् साधुः शृणुयाद्वा आचार्यादिभ्य आकर्णयेत् । कानू ? नियमान् प्रतिक्रमणदण्डकान् । किंविशिष्टान् ? समान् सर्वान् । व्यवहाराविरोधेन पठेच्छृणुयाद्वेति संबन्धः । पुनः किंविशिष्टान् ? कर्मघ्नान् आवृत्या समान् कर्मघ्नानित्यपि योज्यं, सर्वेषां कर्मणां हन्तृत्वोपदेशार्थम् । केन करणभूतेन विशेषणभूतेन वा ? चेतसा मनसा । किंविशिष्टेन ? युक्तेन समाहितेन । तदर्थनिष्ठेनेत्यर्थः । किंविशिष्टः सन् ? निन्दा गर्हालोचनाभियुक्तः । कृतदोषस्यात्मसाक्षिकं हा दुष्टं कृतमिति चेतसि भावनं निन्दा | तदेव गुरुसाक्षिकं ग । गुरोर्दोषनिवेदनमालोचनम् । निन्दा च ग चालोचनं च निन्दागर्हालोचनानि । तेष्वभियुक्तोभ्युत्थितः । उद्यत इति यावत् । तैर्वा अभि समन्ताद् युक्तः परिणतः । भावप्रतिक्रमणसमाहित इत्यर्थः । स एवं निन्दागलोचनाभियुक्तः । तथा चोक्तम्
आलोयण निंदणगरहणाहिं अवभुट्ठिओ अकरणाए । तं भावपडिकमणं सेसं पुण दव्वदो भणिदं ॥ किमर्थं पठेच्छृणुयाद्वा ? शुद्ध्यै विपुलकर्मनिर्जरार्थम् । सर्वातीचारविशुद्ध्यर्थमित्यर्थः । उक्तं च
भावयुक्तोर्थतन्निष्ठः सदा सूत्रं तु यः पठेत् ।
स महानिर्जरार्थाय कर्मणो वर्तते यतिः ॥
इदमत्र तात्पर्य, यस्मादैदयुगीना दुःखमाकालानुभावाद्वक्रजडीभूताः स्वयमपि कृतं व्रताद्यतीचारं न स्मरन्ति चलचित्तत्वाच्चासकृत्प्रायशोपराध्यन्ति तस्मादीर्यादिषु दोषो भवतु वा मा मवतु, तैः सर्वांतीचारविशुद्ध्यर्थं सर्वे प्रतिक्रमणदण्डकाः प्रयोक्तव्याः । तेषु यत्र क्वचिचित्तं स्थिरं भवति
१ आलोचननिन्दनगर्हणाभिरभ्युत्थित: अकरणे । तद्भावप्रतिक्रमणं शेषं पुनर्द्रव्यतो भणितम् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org