________________
अष्टमोऽध्यायः।
५८१
प्रतिक्रान्तिक्रियायाः कर्तृकर्मकरणाधिकरणकारकाणि लक्षयतिस्यात् प्रतिक्रमकः साधुः प्रतिक्रम्यं तु दुष्कृतम् । येन यत्र च तच्छेदस्तत्प्रतिक्रमणं मतम् ॥ ६१ ॥ स्यात् । कोसो ? साधुर्यतिः । किंविशिष्टः ? प्रतिक्रमकः प्रतिक्रमति प्रतिगच्छति द्रव्यादिविषयादतीचाराभिवर्तते दोषनिहरणे वा प्रव. तते इति प्रतिक्रमकः । पञ्चमहाव्रतादिश्रवणधारणदोषनिहरणतत्पर इत्यथः । एतत् कर्तृकारकलक्षणम् । तथा स्यात् । किं तत् ? दुष्कृतं मिथ्यात्वाद्यतीचाररूपं पापं तन्निमित्तद्रव्यादिकं वा । किं विशिष्टम् ? प्रतिक्रम्यं परित्याज्यम् । तुर्विशेषे । एतत् कर्मकारकलक्षणम् । तथा तन्मतमिष्टम् । किं तत् ? प्रतिक्रमणम् । येन किम् ? येन स्यात् । कोसौ ? तच्छेदस्तस्य दुष्कृतस्य निर्हरणम् । केन ? येन करणभूतेन मिथ्यादुष्कृताभिधानाभिव्यक्तपरिणामेनाक्षरकदम्बकेन वा । तथा तच्छेदः स्यात् । क । यत्राधिकरणभूते यस्मिन् व्रतशुद्धिपूर्वकत्वरूपे व्रतशुद्धिपरिणते वा जीवे । एते करणाधिकरणकारकलक्षणे । उक्तं च
जीवो दु वडिकमओ व्वे खेत्ते य काल भावे य । पडिगच्छदि जेणुजहिं तं तस्स भवे पडकमणं ॥ पडिकमिदव्वं दव्वं सञ्चित्ताचित्तमिस्सियं तिविहं । खेत्तं च गिहादीयं कालो दिवसादिकालम्हि ॥ मिच्छत्ते पडिकमणं तह चेव असंजमे पडिक्कमणं । कसापसु पडिकमणं जोगेसु य अप्पसत्थेसु ॥
१ जीवस्तु प्रतिक्रमको द्रव्ये क्षेत्रे च काले भावे च ।
प्रतिगच्छति येनो...तत्तस्य भवेत्प्रतिक्रमणम् ।। प्रतिक्रमितव्यं द्रव्यं सचित्ताचित्तमिश्रकं त्रिविधम् । क्षेत्रं च गृहादिकं कालो दिवसादिकाले ॥ मिथ्यात्वे प्रतिक्रमणं तथा चैव असंयमे प्रतिक्रमणम् । कषायेषु प्रतिक्रमणं योगेषु च अप्रशस्तेषु ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org