________________
५८०
अनगारधर्मामृते
क्रमणायामन्या रात्रिप्रतिक्रमणायां शेषे द्वे देवसिकप्रतिक्रमणायां चान्तभवन्तीति विभागः । एतेन सप्त लघुप्रतिक्रमणा भवन्तीत्युक्तं भवति । उक्तं च
लुञ्चे रात्रौ दिने भुक्ते निषेधिकागमने पथि । स्यात् प्रतिक्रमणा लघ्वी तथा दोषे तु सप्तमी॥ नामादिप्रतिक्रमणाः षट् श्लोकद्वयेन विवृण्वन्नाहसानामादिप्रतिक्रान्तिः परिणामनिवर्तनम् । दुर्नामस्थापनाभ्यां च सावद्यद्रव्यसेवनात् ॥ ५९॥ क्षेत्रकालाश्रितादागाद्याश्रिताचातिचारतः। परिणामनिवृत्तिः स्यात् क्षेत्रादीनांप्रतिक्रमः॥६०॥ युग्मम् । स्याद्भवेत् । कासौ ? नामादिप्रतिक्रान्तिः । नामप्रतिक्रमणा स्थापनाप्रतिक्रमणा द्रव्यप्रतिक्रमणा च यथाक्रमं भवेदित्यर्थः । किंलक्षणा ? परिणामनिवर्तन परिणामस्यान्यथाभावस्य निवृत्तिः । काभ्याम् ? दुर्नामस्थापनाभ्याम् । न केवलं, सावद्यद्रव्यसेवनाच । नाम च स्थापना च नामस्थापने । दुष्टे पापे नामस्थापने दुर्नामस्थापने, ताभ्याम् । पापहेतो. नर्नान्नः सरागस्थापनायाश्चेत्यर्थः । सहावद्येन हिंसादिपापेन वर्तते इति सावयं हिंसादिपापयुक्तम् । तच्च तव्यं च भोज्यादि वस्तु । तस्य सेवनमुपयोगः सावद्यद्रव्यसेवनं, तस्मात् । तथा स्यात् । कोसौ ? प्रतिक्रमः क्षेत्रादीनाम् । क्षेत्रप्रतिक्रमणा कालप्रतिक्रमणा भावप्रतिक्रमणा चेत्यर्थः । किंलक्षणा? परिणामनिवृत्तिः । कस्मात् ? अतिचारतो दोषात् । किंविशिष्टात् । क्षेत्रकालाश्रितात्। क्षेत्रसंबन्धिनः कालसंबन्धिनश्चेत्यर्थः । क्षेत्रं च कालश्च क्षेत्रकालौ । तदाश्रितोऽधिष्ठितः क्षेत्रकालाश्रितस्तस्मात् । न केवलं, रागाद्याश्रिताच रागद्वेषमोहसंबन्धिन इत्यर्थः । रागादिनाश्रितो रागाद्याश्रितस्तस्मात् । क्षेत्रातीचारपरिणामनिवृत्तिः क्षेत्रप्रतिक्रमः। कालातीचारपरिणामनिवृत्तिः कालप्रतिक्रमः । रागाद्यतीचारपरिणामनिवृत्तिच भावप्रतिक्रम इत्यर्थः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org