________________
अष्टमोऽध्यायः।
५७९
एवमाचारशास्त्रमतेन सप्तविधं प्रतिक्रमणमभिधाय शास्त्रान्तरोक्ततझेदान्तराणामत्रैवान्तर्भावप्रकाशनार्थमाह
सोन्त्ये गुरुत्वात् सर्वातीचारदीक्षाश्रयोऽपरे । निषिद्धिकालुश्चाशब्दोषार्थश्च लघुत्वतः ॥ ५८ ॥ अन्तर्भवतीत्यध्याहारः । स प्रतिक्रमः सर्वातीचारदीक्षाश्रयोऽन्तर्भवति । क ? अन्त्ये उत्तमार्थे । कस्मात् ? गुरुत्वाद् भक्त्युच्छ्वासदण्डकपाठबहुलत्वात् । सर्वातीचारा दीक्षाग्रहणात्प्रभृति संन्यासग्रहणकालं यावत्कृता दोषाः । दीक्षा व्रतादानम्। सर्वातीचाराश्च दीक्षा च सर्वातीचारदीक्षाः। ता आश्रयो विषयो यस्य प्रतिक्रमस्य सोयं सर्वातीचारदीक्षाश्रयः। सर्वा. तीचाराश्रयो दीक्षाश्रयश्चेत्यर्थः । सर्वातीचारप्रतिक्रमणा व्रतारोपणप्रतिक्रमणा चोत्तमार्थप्रतिक्रमणायां गुरुत्वादन्तर्भवत इत्यर्थः। एतेन बृहत्प्रतिक्रमणाः सप्त भवन्तीत्युक्तं भवति । ताश्च यथा-व्रतारोपणी पाक्षिकी कार्तिकान्तचातुर्मासी फाल्गुनान्तचातुर्मासी आषाढान्तसांवत्सरी सार्वातीचारी उत्तमार्थी चेति । आतिचारी सार्वातीचायां त्रिविधाहारव्युत्सर्जनी चोत्तमाऱ्यां प्रतिक्रमणायामन्तर्भवतः। तथा पञ्च संवत्सरान्ते विधेया योगान्ती प्रतिक्रमणा संवत्सरप्रतिक्रमायामन्तर्भवति । उक्तं च
व्रतादाने च पक्षान्ते कार्तिके फाल्गुने शुचौ । स्यात्प्रतिक्रमणा गुर्वी दोषे संन्यासने मृतौ ॥ तथा स प्रतिक्रमो निषिद्धिकेर्यालुञ्चाशदोषार्थश्वान्तर्भवति । क ? अपरे आह्निकादौ प्रतिक्रमे । कस्मात् ? लघुत्वतो भक्त्युच्छ्वासदण्डकपाठाल्पत्वात् । निषिद्धिकायामीर्या गमनं निषिद्धिकर्या । निषिद्धिकागमनमित्यर्थः । लुञ्चो दीक्षाग्रहणोत्तरकालं द्वित्रिचतुर्मासविधेयं हस्तेन केशोत्पा. टनम् । अशनमाशो भोजनम् गोचर इत्यर्थः दोषो दुःस्वप्नाद्यतीचारः। निषिद्धिकेर्या च लुञ्चश्चाशश्च दोषश्च निषिद्धिकर्यालुञ्चाशदोषाः । ते चत्वारोऽर्था निमित्तानि यस्य प्रतिक्रमस्य स तथोक्तः । इदमत्र तात्पर्य, निषिद्धिकागमनप्रतिक्रमणा लुञ्चप्रतिक्रमणा गोचारप्रतिक्रमणा अतीचारप्रतिक्रमणा चैर्यापथिकादिप्रतिक्रमणासु लघुत्वादन्तर्भवन्ति । तत्राद्या पन्थातीचारप्रति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org