________________
५७८
अनगारधर्मामृते
भवति । कोसौ ? प्रतिक्रमः प्रतिक्रमणम् । किंलक्षणः ? ध्वंसः प्रध्वंस आत्मनोऽपसारणम् । कस्य ? नामाद्यालम्बनागसो नामस्थापनाषट्काश्रितस्यापराधस्य पापस्य वा । नाम आदिर्यस्य स्थापनादेतन्नामादि नामस्थापनाद्रव्यक्षेत्रकालभावषवम् । तद् आलम्बनमाश्रयो यस्य तामाधालम्बनम् । तच तदागोऽपराधः पापं वा नामाद्यालम्बनागस्ततस्य । कथम् ? त्रिधा मनोवाकायैः कृतकारितानुमतैश्च । अथवा निन्दनगर्हणालोचनैर्मनोवाक्कायैर्वा । नामाद्याश्रयस्थागसो ध्वंसः । उक्तं चविनिन्दनालोचनगर्हणैरह, मनोवचःकायकषायनिर्मितम् । निहन्मि पापं भवदुःखकारणं, मिषग्विषं मन्त्रगुणैरिवाखिलम् ॥ तदेतत्प्रतिक्रमणलक्षणम् । उक्तं च
प्रमादप्राप्तदोषेभ्यः प्रत्यावृत्त्य गुणावृतिः। स्यात्प्रतिक्रमणा यद्वा कृतदोषविशोधना ॥ किं विकल्पोसौ प्रतिक्रमः ? अहरित्यादि । अहर्दिनम् । निशा रात्रिः। पक्षः पञ्चदशाहोरात्रः । चतुर्मासं मासचतुष्टयम् । अब्दः संवत्सरः । इया ईयोपथः । उत्तमार्थों निःशेषदोषालोचनपूर्वकाङ्गविसर्गसमर्थो यावजीवं चतुर्विधाहारपरित्यागः । अहश्च निशा च पक्षश्च चतुर्मासं चाब्दश्चर्या चोत्तमार्थश्च अहर्निशापक्षचतुर्मासाब्देोत्तमार्थाः । तेषु सप्तसु भवत्यहरादयो वा सप्त भुवो विषथा यस्य स एवम् । मालिकादिभेदासप्तविध इत्यर्थः । प्रतिक्रमणभेदकथन मिदम् । उक्तं च
ऐर्यापथिकराव्युत्थं प्रतिक्रमणमाह्निकम् ।
पाक्षिकं च चतुर्मासवर्षोत्थं चोत्तमार्थिकम् ॥ तथालोचनापूर्वकत्वात्प्रतिक्रमणायाः सापि तद्वत्सप्तधा स्यादित्यपि बोद्धव्यम् । उक्तं च
आलोचणं दिवसियं राइय इरियावहं च बोद्धव्वं । पक्खय चादुम्मासिय संवच्छरमुत्तमहं च ॥ १ आलोचनं दिवसिकं रात्रिकमीर्यावृतं च बोद्धव्यम् । पाक्षिकं चातुर्मासिकं सांवत्सरमुत्तमार्थं च ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org