________________
अष्टमोऽध्यायः।
प्राभातिकानुष्ठानैर्यतिभिः । तथा गुर्वादयो विधिवन्मध्याह्ने यतिभिर्वन्धाः। किंविशिष्टैः ? स्तुतदेवैः कृतदेववन्दनः । तथा गुर्वादयो विधिवत्लायं संध्यायां यतिभिर्वन्द्याः। किंविशिष्टैः ? कृतप्रतिक्रमैः प्रतिक्रमणं कृतवद्भिः । चशब्दोत्र नैमित्तिकक्रियानन्तरं विधिवन्दनासमुच्चयार्थः ।
आचार्यशिष्ययोः शेषयतीनां च वन्दनाप्रतिवन्दनयोर्विषयविभागनिर्णयार्थमाह
सर्वत्रापि क्रियारम्भे वन्दनाप्रतिवन्दने ।
गुरुशिष्यस्य साधूनां तथा मार्गादिदर्शने ॥ ५५॥ कर्तव्ये इत्यध्याहारः । के ? वन्दनाप्रतिवन्दने । कस्य ? गुरुशिष्यस्य । गुरुश्च शिष्यश्च गुरुशिष्यं, तस्य । शिष्येण गुरुर्वन्द्य आचार्येण च शिष्यः प्रतिवन्ध इत्यर्थः । क? क्रियारम्मे कृतिकर्मोपक्रमे। किंवि. शिष्टे ? सर्वत्रापि। नित्ये नैमित्तिके चेत्यर्थः । तथा वन्दनाप्रतिवन्दने साधूनां शेषयतीनां कर्तव्ये यथायोग्यम् । क? मार्गादिदर्शने मार्गे दृष्टेषु यतिषु । आदिशब्दान्मलोत्सर्गोत्तरकालं कायोत्सर्गानन्तरदर्शनेपि । सामायिकादित्रयस्य व्यवहारानुसारेण प्रयोगविधि दर्शयतिसामायिकं णमो अरहंताणमिति प्रभृत्यथ स्तवनम् । थोसामीत्यादि जयति भगवानित्यादिवन्दनां युंज्यात् ५६ युंज्यात् संयतो देशसंयतो वा प्रयोजयेत् । किं तत् ? सामायिक सामायिकदण्डकम् । कीदृशम् ? णमो अरहंताणं इति प्रभृति। तथानन्तरं युझ्यात् । किं तत् ? स्तवनं चतुर्विंशतिस्तवनं स्तवदण्डकम् । कीदृशम् ? थोसामि इत्यादि । अथ अनन्तरं युझ्यात् । काम् ? जयति भगवानित्यादिवन्दनाम् । अत्रैक आदिशब्दो लुप्त निर्दिष्टो द्रष्टव्यः । तेन अर्ह सिद्धादिवन्दना गृझते । भथ प्रतिक्रमणस्य लक्षणविकल्पनिर्णयार्थमाह
अहर्निशापक्षचतुर्मासाब्देोत्तमार्थभूः । प्रतिक्रमस्त्रिधा ध्वंसो नामावालम्बनागसः॥ ५७॥ मन-ध-२०
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org