________________
५७६
अनगारधर्मामृते—
न वन्द्याः । के ? पित्रादयः । किंविशिष्टाः ? असंयताः । केन ? श्रावणापि यथोक्तानुष्ठाननिष्ठेन सागारेणापि किं पुनरनगारेणेत्यपि शब्दार्थः । माता च पिता च पितरौ । गुरुश्च गुरुश्च गुरू । दीक्षागुरुः शिक्षागुरुश्च । राजापि । किं पुनरमात्यादिरित्यपिशब्दार्थः । कुलिङ्गिनस्तापसादयः पार्श्वस्थादयश्च । कुदेवा रुद्रादयः शासनदेवतादयश्च । तथा सोपि शास्त्रोपदेशाधिकारी श्रावकोपि न वन्द्यः । कैः ? संयतैर्यतिभिः ।
1
संयतेपि वन्दनाविधिनियमार्थमाह
वन्द्यो यतोप्यनुज्ञाप्य काले साध्वासितो न तु । व्याक्षेपाहारनीहारप्रमादविमुखत्वयुक् ॥ ५३ ॥
वन्द्यः । कोसौ ? यतोपि संयतोपि । कैः ? संयतैः । क्व ? काले । किंविशिष्टः सन् ? साध्वासितः सम्यगुपविष्टः । किं कृत्वा ? अनुज्ञाप्य भगवन्, वन्देऽहमिति विज्ञापनया वन्दस्खेत्यनुज्ञां कारयित्वा । उक्तं च
आसने ह्यासनस्थं च शान्तचित्तमुपस्थितम् । अनुज्ञाप्येव मेधावी कृतिकर्म निवर्तयेत् ॥
न तु न पुनर्यतोपि वन्द्यः । किंविशिष्टः ? व्याक्षेपेत्यादि । व्याक्षेपो व्याकुलत्वम् । आहारो भोजनम् । नीहारो विण्मूत्रोत्सर्गः । प्रमादोऽनवधानम् । विमुखत्वं पराङ्मुखत्वम् । व्याक्षेपश्चाहारश्च नीहारश्च प्रमादश्च विमुखत्वं च तानि युनक्ति आत्मना संबध्नातीति व्याक्षेपादियुक् । उक्तं च
व्याक्षिप्तं च पराचीनं मा वन्दिष्ठाः प्रमादिनम् । कुर्वन्तं सन्तमाहारं नीहारं चापि संयतम् ॥ काल इति व्याचष्टे --
वन्द्या दिनादौ गुर्वाद्या विधिवद्विहितक्रियैः । मध्याह्ने स्तुतदेवैश्व सायं कृतप्रतिक्रमैः ॥ ५४ ॥
वन्द्याः । के ? गुर्वाद्या आचार्यादयः । क ? दिनादौ प्रातः । किंवत् ? विधिवत् क्रियाकाण्डोक्तविधानेन । कैः ? विहितकियैः कृत
1
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org