SearchBrowseAboutContactDonate
Page Preview
Page 580
Loading...
Download File
Download File
Page Text
________________ अष्टमोऽध्यायः । ५७५ वन्यनेहसौ कल्याणावन्यनेहसौ । गर्भावतरणादिकल्याणानां भूमिः कालश्चेत्यर्थः । अर्चा प्रतिमा । अङ्गं शरीरम् । अर्चा चांगं च कल्याणावन्यनेहसौ चार्चाङ्गकल्याणावन्यनेहसस्तेषाम् । तत्र नामोच्चारणं नामवन्दना । अर्चास्तवनं स्थापनावन्दना । शरीरस्तवनं द्रव्यवन्दना | कल्याणभूमिस्तवनं क्षेत्रवन्दना । कल्याणकालस्तवनं कालवन्दना । गुणस्तवनं भाववन्दना । अवान्तरवन्द्यान् वन्दारुं च निर्दिशति-— सूरिप्रवर्त्यपाध्यायगणिस्थविररात्निकान् । यथार्ह वन्दतेऽमानः संविग्नोऽनलसो यतिः ॥ ५० ॥ सूरिः सारणवारणकारी । प्रवर्ती प्रवर्तकः । उपाध्यायः पाठकः । गणी गणरक्षको राजसभादिविदितः । स्थविरो मर्यादाकारकः । रात्रिको रत्नत्रयाधिकः । वन्दते विनयकर्मणा संभावयति । कोसौ ? यतिः श्रमणः । किं• विशिष्टः ? अमानोऽगर्वः । पुनः किंविशिष्टः ? संविग्नः संसारभीरुः । पुनरपि किंविशिष्टः ? अनलस आलस्यरहितः । कान् ? सूर्यादीन् । कथम् ? यथार्हम् अर्हस्य योग्यस्यानतिक्रमेण । सूरिश्व प्रवर्ती चोपाध्यायश्च गणी च स्थविरश्च रात्रिकश्च तान् । विधिवन्दनाया विप्रकर्षवशाद्विषय विभागार्थमाह गुरौ दूरे प्रवर्त्त्याद्या वन्द्या दूरेषु तेष्वपि । संयतः संयतैर्वन्द्यो विधिना दीक्षया गुरुः ॥ ५१ ॥ 1 वन्द्याः । के ? प्रवर्त्त्याद्याः प्रवर्तकादयः । कैः ? संयतैः । व सति ? गुरौ आचार्ये । किंविशिष्टे ? दूरे देशाधन्तरिते । केन ? विधिना क्रियाकाण्डोक्तविधानेन । तेष्वपि प्रवर्त्त्यादिषु दूरेषु सत्सु संयतैर्विधिना वन्द्यः । कोसौ ? संयतः सुविहितः । किंविशिष्टः ? गुरुर्ज्येष्ठः । कया ? दीक्षया 1 प्रव्रज्यया ।. सागारेतर यत्योरवन्दनीयान्निर्दिशति श्रावणापि पितरौ गुरू राजाप्यसंयताः । कुलिङ्गिनः कुदेवाश्च न वन्द्याः सोपि संयतैः ॥ ५२ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003098
Book TitleAnagar Dharmamrutam
Original Sutra AuthorN/A
AuthorAshadhar, Bansidhar Shastri, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1919
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy