________________
अनगारधर्मामृते
विनयस्य पञ्चविधत्वमनुवर्ण्य मोक्षार्थस्य तस्य निर्जरार्थिनामवश्यकतंव्यतामुपदिशति---
५७४
लोकानुवृत्तिकामार्थभयनि श्रेयसाश्रयः । विनयः पञ्चधावश्यकार्योन्त्यो निर्जरार्थिभिः ॥ ४८ ॥
I
विनयः पञ्चधा पञ्चप्रकारः स्यात् । कथंभूतः ? लोकानुवृत्तीत्यादि । लोकानुवृत्तिर्व्यवहारजनानुकूलाचरणं आभिमानिकरसानुविद्धा । यतः सर्वेन्द्रियप्रीतिः स कामः । यतः सर्वप्रयोजनसिद्धिः सोर्थः । भयं भीतिः । निःश्रेयसं मोक्षः । लोकानुवृत्तिश्च कामश्चार्थश्च भयं च निःश्रेयसं च । तान्यायो विषयो यस्य स एवम् । तत्रान्त्यो मोक्षविनयः स्यात् । किंविशिष्टः ? अवश्य कार्यो नियमेन कर्तव्यः । कैः ? निर्जरार्थिभिः । स च दर्शनादिभेदात्पञ्चधा प्राक् प्रपञ्चितः । तथा चोक्तम्
लोकानुवर्तनाहेतुस्तथा कामार्थहेतुकः विनयो भयहेतुश्च पञ्चमो मोक्षसाधनः ॥ उत्थानमञ्जलिः पूजाऽतिथेरासनढौकनम् । देवपूजा च लोकानुवृत्तिकृद्विनयो मतः ॥ भाषाछन्दानुवृत्तिं च प्रदानं देशकालयोः । लोकानुवृत्तिरर्थाय विनयश्चाञ्जलिक्रिया ॥ कामतन्त्रे भये चैव ह्येवं विनय इष्यते । विनयः पञ्चमो यस्तु तस्यैषा स्यात्प्ररूपणा ॥ नामादिनिक्षेपभेदात् पोढा वन्दनां निर्दिशन्नाह
नामोच्चारणमर्चाङ्गकल्याणावन्यनेहसाम् । गुणस्य च स्तवाचैकगुरोर्नामादिवन्दना ॥ ४९ ॥
,
भवन्ति । काः ? नामादिवन्दनाः । कस्य ? एकगुरोरेकस्यार्हदादीनामन्यतमस्य गुरोः पूज्यस्य । कथम् ? नामोच्चारणम् । न केवलं स्तवाश्व स्ववनानि । केषाम् ? अर्चाङ्गकल्याणावन्यनेहसाम् । न केवलं, गुणस्य च । अवनिश्वानेहा चावन्यनेहसौ । कल्याणानां गर्भावतरणादिसंबन्धिनाम
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org