________________
अष्टमोऽध्यायः ।
५७३
लौकिकोऽभ्युदयः पूजार्थाशैश्वर्यादिविभूत्यतिशयः । तस्य शर्म सुखम् । तदेव फलं यस्याः सैवम् ।
अथैकादशभिः पद्यैर्वन्दनां व्याचिख्यासुरादितस्तावलक्षणमाहवन्दना नतिनुत्याशीर्जयवादादिलक्षणा ।
भावशुद्ध्या यस्य तस्य पूज्यस्य विनयक्रिया ॥ ४६ ॥
1
भवति । कासौ ? वन्दना । किंरूपा ? विनयक्रिया विनयकर्म । कस्य ? पूज्यस्य । किंबिशिष्टस्य ? यस्य तस्य अर्हदादीनां वृषभादीनां चान्यतमस्य । कया ? भावशुद्ध्या परिणामप्रसरया । उक्तं च---
'किदियम्मं चिदियम्मं पूजाकम्मं च विणयकस्मं च ।' इति । किमात्मिका ? नतिनुत्याशीर्ज यवादादिलक्षणा । नतिश्च नुतिश्चाशीश्च जयवादादयश्च नतिनुत्याशीर्जयवादाः । ते आदयो येषां नामनिर्वचनगुणानुध्यानादीनां ते नत्यादयः । त एव लक्षणं स्वरूपं यस्याः सैवम् । प्रणतिर्वन्दति कश्चित् । तथा चोक्तं
1
कर्मारण्यहुताशानां पञ्चानां परमेष्ठिनाम् । प्रणतिर्वन्दनाऽवादि त्रिशुद्धा त्रिविधा बुधैः ॥
को विनय इत्याह
हिताहिताप्तिलुप्त्यर्थं तदङ्गानां सदाञ्जसा । यो महात्म्योद्भवे यत्तः स मतो विनयः सताम् ॥ ४७ ॥
सविनयः सतां मतः । साधुभिरिष्यते इत्यर्थः । यः किम् ? यो यत्तस्तात्पर्यम् । क्व ? माहात्म्योद्भवे शक्तिविशेषस्योत्पादे उल्लासे च । -कथम् ? अञ्जला निर्व्याजम् । कदा ? सदा सर्वदा । केषाम् ? तदङ्गानां हितप्राप्यहितच्छेदनसाधनानाम् । किमर्थम् ? हिताहिताप्तिलुप्त्यर्थम् आतिश्च प्राप्तिर्लुप्तिश्च छित्तिराप्तिलुप्ती । हिताहितयोराप्तिलुप्ती हिताहितासिलुप्ती हितप्राप्त्यहितच्छेदने, ताभ्यां तदर्थम् ।
१ - कृति कर्म चितिकर्म पूजाकर्म च विनयकर्म च ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org