________________
५७२
अनगारधर्मामृते
शिष्टाः ? अनन्यसामान्याः। नास्त्यन्यत् सामान्यं साधारणं येषां तेऽनन्यसामान्याः अनन्यसदृशा इत्यर्थः । कैः ? भावकै-र्भावनानिष्ठभव्यैः । सोस्मत्कृतो यथा
विवर्तेः स्वैर्द्रव्यं प्रतिसमयमुद्यद् व्ययदपि, स्वरूपादुल्लोलैर्जलमिव मनागप्यविचलत्। अनेहोमाहात्म्याहितनवनवीभावमखिलं, प्रमिन्वानाः स्पष्टं युगपदिह नः पान्तु जिनपाः ॥ एष एव भगवतां वास्तवस्तवः केवलज्ञानादिगुणानां तद्वतां चाव्यतिरेका. दैक्यसंभवात् । यथाह
तं' णिच्छएण जुजइ ण सरीरगुणे हिं हुंति केवलिणो। केवलिगुणे थुणइ जो सो सञ्चं केवली थुणइ ॥ व्यवहारनिश्चयस्तवयोः फलविभागं प्ररूपयन्नुपयोगाय प्रेरयतिलोकोत्तराभ्युदयशर्मफलां सृजन्त्या, पुण्यावली भगवतां व्यवहारनुत्या । चित्तं प्रसाद्य सुधियः परमार्थनुत्या, स्तुत्ये नयन्तु लयमुत्तमबोधिसिद्ध्यै ॥४५॥ नयन्तु प्रापयन्तु । के ? सुधियः। किम् ? चित्तं मनः। कं नयन्तु ? लयमा. सक्तिम् । क? स्तुत्ये शुद्धचिद्रूपस्वरूंपे । कया? परमार्थनुत्या निश्चयस्तव. नेन । केषाम् ? भगवतां परमाराध्यतीर्थकराणाम् । कस्यै ? उत्तमबोधिसियै निश्चयरत्नत्रयसंप्राप्त्यर्थम् । किं कृत्वा ? प्रसाद्य प्रसन्नीकृत्य । किं तत् ? चित्तम् । कया? व्यवहारनुत्या व्यवहारस्तवनेन । केषाम् ? भगवताम् । किं कुर्वत्या ? सृजन्त्या जनयन्त्या । काम् ? पुण्यावली सुकृत. श्रेणीम् । किंविशिष्टाम् ? लोकोत्तराभ्युदयशर्मफलाम् ? लोकोत्तरोऽ
१ तं निश्चयेन योजयत न शरीरगुणैर्भवन्ति केवलिनः ।
केवलिगुणान् स्तौति यः स सत्यं केवलिनं स्तौति ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org