SearchBrowseAboutContactDonate
Page Preview
Page 576
Loading...
Download File
Download File
Page Text
________________ अष्टमोऽध्यायः। ५७१ क्षेत्रस्तवमाहक्षेत्रस्तवोहतां स स्यात्तत्स्वर्गावतरादिभिः। पूतस्य पूर्वनाद्यादेयत्प्रदेशस्य वर्णनम् ॥ ४२ ॥ अर्हतां स क्षेत्रस्तवः स्यात् । यत्किम् ? यद्वर्णनम् । कस्य ? प्रदेशस्य । किंविशिष्टस्य ? पूर्वनायादेः पुरोऽयोध्यादयः । वनानि सिद्धार्थादीनि । अद्रयः कैलासादयः। पुरश्च वनानि चादयश्च पूर्वनादयः । ते आदयो यस्य नद्यादेरसौ पूर्वनाद्यादिस्तस्य । पुनः किंविशिष्टस्य ? पूतस्य पवित्रस्य । कैः ? तत्स्वर्गावतरादिभिः स्वर्गादवतरो भूमाववतरणं स्वर्गावतरः । स आदिर्येषां जन्मनिष्क्रमणज्ञाननिर्वाणानां तानि स्वर्गावतरादीनि । तेषामहतां स्वर्गावतरादीनि तत्स्वर्गावतरादी नि, तैः । कालस्तवमाहकालस्तवस्तीर्थकृतां स ज्ञेयो यदनेहसः । तद्गर्भावतरायुद्धक्रियादृप्तस्य कीर्तनम् ।। ४३ ॥ स तीर्थकृतां कालस्तवो शेयो बोद्धव्यः । यत्किम् ? यत्कीर्तनं क्रियते । कस्य ? अनेहसः कालस्य । किंविशिष्टस्य ? तद्गर्भावतरायुद्धक्रियादृप्तस्य तेषां तीर्थकृतां गर्भावताराद्युद्धक्रिया गर्भावतरणप्रसवन. निष्क्रमणज्ञाननिर्वाणप्रशस्तक्रियास्तद्गर्भावतराद्युद्ध क्रियाः । ताभिईसस्य लक्षणया गर्वितस्य ॥ भावस्तवमाहवर्ण्यन्तेनन्यसामान्या यत्कैवल्यादयो गुणाः । भावकैर्भावसर्वस्खदिशां भावस्तवोस्तु सः॥४४॥ अस्तु भवतु स भावस्तव । केषाम् ? भावसर्वस्वदिशां जीवादिपदार्थाश्रितद्रव्यगुणपर्ययसंपदुपदेशिनाम् । भावानां जीवादिपदार्थानां सर्वस्वं द्रव्यादिसंपदं दिशन्ति ये तेषाम् । यत्किम् ? यद्वर्ण्यन्ते । के ? गुणाः । किंविशिष्टाः ? कैवल्यादयः केवलज्ञानदर्शनादयः । पुनः किंवि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003098
Book TitleAnagar Dharmamrutam
Original Sutra AuthorN/A
AuthorAshadhar, Bansidhar Shastri, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1919
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy