________________
अष्टमोऽध्यायः।
६२३
किं कृत्वा ? स्मृत्वा चिन्तयित्वा । कान् ? जिनान् । किं विशिष्टान् ? समदृशो जीवितमरणादिषु तुल्यदर्शिनः “साकल्येनैकदेशेन कारातिजितो जिनाः पञ्चाहदादयोबेष्टाः” इति कृत्वा पञ्चपरमेष्ठिनः । कायोत्सर्गे यथोक्तानुच्छासान् कृत्त्वेत्यर्थः । सम्यक् षडावश्यकानुष्ठातुश्चिह्ननिर्णयार्थमाहशृण्वन् हृष्यति तत्कथां धनरवं केकीव मूकैडतां, तद्गहेऽङ्गति तत्र यस्यति रसे वादीव नास्कन्दति । क्रोधादीन् जिनवन्न वैद्यपतिवद् व्यत्येति कालक्रम, नित्यं जातु कुलीनवन्न कुरुते का षडावश्यकम् ॥ १२८॥ षण्णामावश्यकानां समाहारः षडावश्यकं कर्ता साधुत्वेन कुर्वाणः साधुहूंष्यति प्रमोदते । किं कुर्वन् ? शृण्वन्नाकर्णयन् । काम् ? तत्कथां तस्य पडावश्यकस्य कथां वार्ताम् । क इव कमित्याह-घनरवं केकीव । यथा केकी मयूरो घनरवं जलदशब्दं शृण्वन्नालादते तथा प्रकृतोपीत्यर्थः । तथा अङ्गति गच्छति । कोसौ ? षडावश्यकं कर्ता । काम् ? मूकडतां मौन बधिरत्वं च । क ? तदर्थे । स्वयं न गर्हते षडावश्यक, नाप्यन्येन गर्यमाणं शृणोतीत्यर्थः । मूकोऽवाक् । एडो बधिरः । मूकश्चैडश्च मूकैडौ । मूकैडयो वो मूकैडता, ताम् । तथा षडावश्यकं कर्ता तत्र षडावश्यके यस्यति प्रयतते अवधानं करोति । क क इव ? रसे वादीव । यथा वादी धातुवादी रसे पारदे प्रयतते तथा प्रकृतोपीत्यर्थः । तथा नास्कन्दति नाविशति । कोसौ ? षडावश्यकं कर्ता । कान् ? क्रोधादीन् । किंवत् ? जिनवद् । यथा क्षीणकषायः क्रोधादीनावगाहते तथा प्रकृतोपीत्यर्थः । तथा षडावश्यकं कर्ता न व्यत्येति नातिक्रामति । कम् ? कालक्रमम् । किंवत् ? वैद्यपतिवत् । यथा भिषग्वरः स्वस्थातुरौ प्रति कालक्रमं न हापयति तथा साधुरावश्यककालक्रममित्यर्थः । कालश्च क्रमश्व कालक्रममिति समाहारः । तत्रावश्यकं प्रति योग्यकालासनेत्यादिना कालः, सामायिक चतुर्विंशतिस्तव इत्यादिना क्रमश्च निर्दिष्टौ । वैद्यपतिं प्रति विमो बोध्यो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org