Book Title: Anagar Dharmamrutam
Author(s): Ashadhar, Bansidhar Shastri, Manoharlal Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 634
________________ नवमोऽध्यायः ६२९ षिकः । अपराह्निक इत्यर्थः । एवं गोसर्गे पूर्वाह्ने भवो गौसर्गिकः । पौर्वाह्निक इत्यर्थः ? किं विशिष्टं स्वाध्यायम् ? आत्तं गृहीतम् । प्रतिष्ठापितमित्यर्थः । कया ? लघुभक्त्या। कयोः ? श्रुतसूर्योः श्रुतस्याचार्यस्य च । लध्वी अञ्चलिकामात्रपाठरूपा भक्तिर्वन्दना । सा च श्रुतस्य यथा “अर्हत. क्त्रप्रसूतम्' इत्यादिका । एवमाचार्यादीनामपि यथाव्यवहारमसाववसेया । एवं स्वाध्याये द्वादशकायोत्सर्गा व्याख्याताः प्रतिपत्तव्याः । एवं वन्दनादिष्वपि पडादयः कायोत्सर्गा व्याख्यास्यमाना उन्नेयाः । स्वाध्यायानां ग्रहणक्षमापणकालेयत्तानिरूपणार्थमाहग्राह्यः प्रगे द्विघटिकादूर्ध्व स प्राक्ततश्च मध्याह्ने । क्षम्योऽपराह्नपूर्वापररात्रेष्वपि दिगेषैव ॥३॥ स स्वाध्यायो ग्राह्यः प्रतिष्ठाप्यः साधुभिः । क ? प्रगे प्रभाते । कथम् ? ऊर्व अनंतरम् । कस्मात् ? द्विघटिकाद् घटिकाद्वयात् । द्वयोर्घटिकयोः समाहारो द्विघटिकं, तस्माद् द्विधटिकात् । तृतीयायां घटिकायां प्रवर्तमानायामित्यर्थः । क्षम्यश्च निष्ठाप्यः । कोसौ ? स स्वाध्यायः ।क? मध्याहे । कथम् ? प्राक् पूर्वम् । कस्मात् ? ततो घटिकाद्वयात् । घटिकाद्वयोनमध्याह्ने संपन्ने सतीत्यर्थः । भवति च । कासौ ? दिग् उपदेशः। किंविशिष्टा ? एषैव अनन्तरोक्तैव । केषु ? अपराह्नपूर्वापररात्रेष्वपि । अपराढे घटिकाद्वयाधिकमध्याह्वादूर्व प्रतिष्ठाप्यो, घटिकाद्वयशेषे दिनान्ते निष्ठाप्यः । तथा घटिकाद्वयाधिके प्रदोषे ग्राह्यो, घटिकाद्वयहीनेऽर्धरात्रे निष्ठाप्यः । तथा घटिकाद्वयाधिकेऽर्धरात्रे ग्राह्यो, द्विघटिकावशेषे निशान्ते क्षम्य इत्यर्थः । स्वाध्यायं लक्षयित्वा विधिवत्तद्विधानस्य फलमाहसूत्रं गणधरायुक्तं श्रुतं तद्वाचनादयः। स्वाध्यायः स कृतः काले मुक्त्यै द्रव्यादिशुद्धितः॥४॥ भवति । किं तत् ? सूत्रम् । किम् ? श्रुतम् । कीदृशम् ? गणधराद्युक्तं गणधरादिभिः प्रणीतम् । उक्तं च Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698