Book Title: Anagar Dharmamrutam
Author(s): Ashadhar, Bansidhar Shastri, Manoharlal Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 637
________________ अनगारधर्मामृते परिच्छित्तिश्चात्मशुद्धिः। तथा मित्रस्य भावो मैत्री दुःखानुत्पत्यभिलाषः । तस्य द्योतो द्योतनं बुधचेतसि माहात्म्यप्रकाशनं मैत्रीद्योतः । च समुच्चये। तथा च पूर्वभाषितम् जेण तच्चं विवुज्झेज जेण चित्तं णिरुज्झदि । जेण अत्ता विसुज्झेज तं णाणं जिणसासणे ॥ जेण रागा विरज्जेज जेण सेएसु रज्जदि । जेण मित्तिं पभावेज तं णाणं जिणसासणे ॥ अत्र पूर्वसूत्रेण सम्यक्त्वसहचारि ज्ञानमुत्तरसूत्रेण च चारित्रसहचारि ज्ञानं सूत्रकारेणोपवर्णितमुन्नेयम् । साधोरपररात्रे स्वाध्यायप्रतिष्ठापननिष्ठापने प्रतिक्रमणविधानं रात्रियोगनिछापनं च यथाक्रममवश्यकर्तव्यतयोपदिशतिक्लमं नियम्य क्षणयोगनिद्रया लातं निशीथे घटिकाद्वयाधिके। खाध्यायमत्यस्य निशाद्विनाडिकाशेषेप्रतिक्रम्य च योगमुत्सृजेत् उत्सृजेत् त्यजेत् । निष्ठापयेत्साधुरित्यर्थः । कम् ? योगं रात्रौ गृहीतं शुद्धोपयोगम् । किं कृत्वा ? प्रतिक्रम्य कृतदोषविशोधनां कृत्वा । चः समुच्चये । किं कृत्वा ? अत्यस्य निष्ठाप्य । कम् ? स्वाध्यायम् । क? निशाद्विनाडिकाशेषे । निशाया रात्रेहूँ नाडिके घटिके निशाद्विनाडिके । तयोः शेष उद्वरितत्वं निशाद्विनाडिकाशेषस्तस्मिन् । राज्यवसानतृतीयघटिकायां प्रवर्तमानायामित्यर्थः। किंविशिष्टं स्वाध्यायम् ? लातं गृहीतं प्रतिष्ठापितम् । क ? निशीथेऽर्धरात्रे । किंविशिष्टे ? घटिकाद्वयाधिके नाडिकायुग्मातिरिक्ते । अर्धरात्रतृतीयघटिकायां प्रवर्तमानायामित्यर्थः । किं कृत्वा ? नियम्य निवर्त्य । कम् ? क्लमं शरीरग्लानिम् । कया ? क्षणयोगनिद्रया। योगः शुद्धचिद्रूपे यथाशक्ति चिन्तानिरोधः । योगो निद्रेव, इन्द्रियात्ममनो. मरुत्सूक्ष्मावस्थारूपत्वात्, "इन्द्रियात्ममनोमस्तां सूक्ष्मावस्था स्वापः" इत्यभिधानात् । योगश्चासौ निद्रा च योगनिद्रा । क्षणोन कालाल्पत्वम् । तच्चोस्कर्षतो घटिकाचतुष्टयमस्वाध्याययोग्यम् । क्षणभाविनी योगनिद्रा क्षणयोगनिद्रा तया । यदाहुः श्रीमद्गुणभद्रदेवपादाः Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698