Book Title: Alankar Sarvasvam
Author(s): Durgaprasad Pandit, Kasinath Pandurang Parab
Publisher: Tukaram Javaji

View full book text
Previous | Next

Page 19
________________ अलंकारसर्वखम् । भावादविचारिताभिधानम् । तदेतत्कुशाग्रधिषणैः क्षोदनीयमतिगहनगहनमिति नेह प्रतन्यते। अस्ति तावद्व्यङ्गयनिष्ठो व्यञ्जनव्यापारः । तत्र व्यङ्गयस्य प्राधान्याप्राधान्याभ्यां ध्वनिगुणीभूतव्यङ्गयाख्यौ द्वौ काव्यभेदौ । व्यङ्गयस्यास्फुटत्वे न्धतः कुतश्चित्सा काव्यानुमितिरित्युक्ता ॥' इति । अविचारिताभिधानमिति । इह लिङ्गलिङ्गिनोस्तादात्म्यतदुत्पत्तिभ्यामेव तावत्प्रतिबन्धो निश्चीयते । तनिश्चयेनैव च साध्यसिद्धिः। अन्यथा हि साध्यसिद्धिर्न स्याद्व्यभिचारात् । तत्र तादात्म्यं यथा कृतकत्वानित्यत्वयोः । तदुत्पत्तिर्यथा वह्निधूमयोः । वाच्यप्रतीयमानयोः पुनस्तादात्म्यतदुत्पत्ती न स्तः । तथाहि-'निःशेषच्युतचन्दनं स्तनतटं निर्मूष्टरागोऽधरो नेत्रे दूरमनअने पुलकिता तन्वी तथेयं तनुः । मिथ्यावादिनि दूति बान्धवजनस्याज्ञातपीडागमा वापी स्नातुमितो गतासि न पुनस्तस्याधमस्यान्तिकम् ॥' इत्यत्र विधिना निषेधो निषेधेन वा विधिः प्रतीयते । न तस्य वाच्येन सह तादात्म्यम् । विरुद्धत्वात् । नयभावो भावात्मा भवति भावोऽप्यभावात्मा । नापि तदुत्पत्तिः । अभावस्य जन्यजनकत्वानुपपत्तेः । नापि निःशेषच्युतचन्दनादीनां विशेषणानां तदन्तिकगमनानुमापकत्वं युक्तम् । तेषां नानादावपि सद्भावादनैकान्तिकत्वात् । एतच्च ध्वनिकारेणादूषितत्वादन्थकृता स्वकण्ठेन दूषितम् । अत एवानेनान्या विप्रतिपत्तयो न दूषिताः । एतदिति । वाच्यस्य प्रतीयमानेन तादात्म्यतदुत्पत्त्यभावादि नेह प्रतन्यत इति व्यक्तिविवेकविचारे हि मयैवैतद्वितत्य निर्णीतमिति भावः । तदित्थं परपरिकल्पितसमारोपापसारप्रत्याख्यानेन प्राप्तप्रतिः ष्ठानो ध्वनिरित्याह-अस्तीत्यादि । तावच्छब्दो विप्रतिपत्त्यभावद्योतकः । अस्यैव भेदनिर्देशं कर्तुमाह-तत्रेत्यादि । व्यङ्गयनिष्ठे व्यञ्जनव्यापारे सत्यपीत्यर्थः। प्राधान्याप्राधान्येति । यदुक्तम्-'तत्परावेव शब्दार्थों यत्र व्यङ्गयं प्रति स्थितौ । ध्वनेः स एव विषयो मन्तव्यः संकरोज्झितः ॥' इति । तथा-'प्रकारोऽन्यो गुणीभूतव्यङ्ग्यः काव्यस्य दृश्यते । तत्र व्यङ्गयान्वये वाच्यचारुत्वं स्यात्प्रकर्षवत् ॥' इति । अस्फुटत्व इति । व्यङ्गयस्याविवक्षितत्वे सतीत्यर्थः । यदुक्तम्-'रसभावादिविषयविवक्षाविरहे सति । अलंकारनिबन्धो यः स चित्रविषयो मतः ॥' इति । तत्रेति त्रयनिर्धारणे । तस्येत्युत्तमस्य ध्वनेः । आद्य इत्यविवक्षितवाच्यः । न केवलं ध्वनिर्द्विविधः यावत्तत्प्रभेदोऽप्ययं द्विविध इत्यपिशब्दार्थः । यदुक्तम्-'अर्थान्तरे संक्रमितमत्यन्तं वा तिरस्कृ. तम् । अविवक्षितवाच्यस्य ध्वनेर्वाच्यं द्विधा मतम् ॥' इति । द्वितीय इति विवक्षितान्यपरवाच्यः । यदुक्तम्-'असंलक्ष्यक्रमाद्दयोतः क्रमेण द्योतितः परः । विवक्षिताभिधेयस्य ध्वनेरात्मा द्विधा मतः ॥' इति । अत्रैव वस्तुरसालंकाराणां ध्वन्यमानत्वं दर्श. १. 'निषेधेनैव वा विधिर्यः' ख.

Loading...

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 ... 218