________________
अलंकारसर्वखम् । भावादविचारिताभिधानम् । तदेतत्कुशाग्रधिषणैः क्षोदनीयमतिगहनगहनमिति नेह प्रतन्यते।
अस्ति तावद्व्यङ्गयनिष्ठो व्यञ्जनव्यापारः । तत्र व्यङ्गयस्य प्राधान्याप्राधान्याभ्यां ध्वनिगुणीभूतव्यङ्गयाख्यौ द्वौ काव्यभेदौ । व्यङ्गयस्यास्फुटत्वे
न्धतः कुतश्चित्सा काव्यानुमितिरित्युक्ता ॥' इति । अविचारिताभिधानमिति । इह लिङ्गलिङ्गिनोस्तादात्म्यतदुत्पत्तिभ्यामेव तावत्प्रतिबन्धो निश्चीयते । तनिश्चयेनैव च साध्यसिद्धिः। अन्यथा हि साध्यसिद्धिर्न स्याद्व्यभिचारात् । तत्र तादात्म्यं यथा कृतकत्वानित्यत्वयोः । तदुत्पत्तिर्यथा वह्निधूमयोः । वाच्यप्रतीयमानयोः पुनस्तादात्म्यतदुत्पत्ती न स्तः । तथाहि-'निःशेषच्युतचन्दनं स्तनतटं निर्मूष्टरागोऽधरो नेत्रे दूरमनअने पुलकिता तन्वी तथेयं तनुः । मिथ्यावादिनि दूति बान्धवजनस्याज्ञातपीडागमा वापी स्नातुमितो गतासि न पुनस्तस्याधमस्यान्तिकम् ॥' इत्यत्र विधिना निषेधो निषेधेन वा विधिः प्रतीयते । न तस्य वाच्येन सह तादात्म्यम् । विरुद्धत्वात् । नयभावो भावात्मा भवति भावोऽप्यभावात्मा । नापि तदुत्पत्तिः । अभावस्य जन्यजनकत्वानुपपत्तेः । नापि निःशेषच्युतचन्दनादीनां विशेषणानां तदन्तिकगमनानुमापकत्वं युक्तम् । तेषां नानादावपि सद्भावादनैकान्तिकत्वात् । एतच्च ध्वनिकारेणादूषितत्वादन्थकृता स्वकण्ठेन दूषितम् । अत एवानेनान्या विप्रतिपत्तयो न दूषिताः । एतदिति । वाच्यस्य प्रतीयमानेन तादात्म्यतदुत्पत्त्यभावादि नेह प्रतन्यत इति व्यक्तिविवेकविचारे हि मयैवैतद्वितत्य निर्णीतमिति भावः । तदित्थं परपरिकल्पितसमारोपापसारप्रत्याख्यानेन प्राप्तप्रतिः ष्ठानो ध्वनिरित्याह-अस्तीत्यादि । तावच्छब्दो विप्रतिपत्त्यभावद्योतकः । अस्यैव भेदनिर्देशं कर्तुमाह-तत्रेत्यादि । व्यङ्गयनिष्ठे व्यञ्जनव्यापारे सत्यपीत्यर्थः। प्राधान्याप्राधान्येति । यदुक्तम्-'तत्परावेव शब्दार्थों यत्र व्यङ्गयं प्रति स्थितौ । ध्वनेः स एव विषयो मन्तव्यः संकरोज्झितः ॥' इति । तथा-'प्रकारोऽन्यो गुणीभूतव्यङ्ग्यः काव्यस्य दृश्यते । तत्र व्यङ्गयान्वये वाच्यचारुत्वं स्यात्प्रकर्षवत् ॥' इति । अस्फुटत्व इति । व्यङ्गयस्याविवक्षितत्वे सतीत्यर्थः । यदुक्तम्-'रसभावादिविषयविवक्षाविरहे सति । अलंकारनिबन्धो यः स चित्रविषयो मतः ॥' इति । तत्रेति त्रयनिर्धारणे । तस्येत्युत्तमस्य ध्वनेः । आद्य इत्यविवक्षितवाच्यः । न केवलं ध्वनिर्द्विविधः यावत्तत्प्रभेदोऽप्ययं द्विविध इत्यपिशब्दार्थः । यदुक्तम्-'अर्थान्तरे संक्रमितमत्यन्तं वा तिरस्कृ. तम् । अविवक्षितवाच्यस्य ध्वनेर्वाच्यं द्विधा मतम् ॥' इति । द्वितीय इति विवक्षितान्यपरवाच्यः । यदुक्तम्-'असंलक्ष्यक्रमाद्दयोतः क्रमेण द्योतितः परः । विवक्षिताभिधेयस्य ध्वनेरात्मा द्विधा मतः ॥' इति । अत्रैव वस्तुरसालंकाराणां ध्वन्यमानत्वं दर्श.
१. 'निषेधेनैव वा विधिर्यः' ख.