________________
काव्यमाला।
म्राज्यम् । रसादयस्तु जीवितभूता नालंकारत्वेन वाच्याः। अलंकाराणामुपस्कारकत्वाद्रसादीनां च प्राधान्येनोपस्कार्यत्वात् । तस्माद्यङ्गय एव वाक्यार्थीभूतः काव्यजीवितमित्येष एव पक्षो वाक्यार्थविदां सहृदयानामावर्जकः । व्यञ्जनव्यापारस्य सर्वैरनपहृतत्वात्तदाश्रयेण च पक्षान्तरस्याप्रतिष्ठानात् ।
यत्तु व्यक्तिविवेककारो वाच्यस्य प्रतीयमानं प्रति लिङ्गितया व्यञ्जनस्यानुमानान्तर्भावमाख्यत् तद्वाच्यस्य प्रतीयमानेन सह तादात्म्यतदुत्पत्त्य
वस्त्वलंकारयोर्यदलंकारपक्षनिक्षिप्तत्वमन्यैरुक्तं तत्तावदास्ताम्, काव्यात्मनो रसस्य पुनरलंकारत्वमत्यन्तमेवावाच्यमित्याह-रसादय इत्यादि । आदिग्रहणाद्भावतदाभासादीनां ग्रहणम् । न वाच्या इति । वक्तुमयुक्ता एवेत्यर्थः । अलंकार्यस्यालंकारत्वानुपपत्तेः । तस्य चालंकारत्वकथनेऽलंकार्यान्तरं प्रसज्यते । तेन विनालंकाराणामनुपपत्तेः । एतदेवोपसंहरति-तस्मादित्यादिना । व्यङ्गय इति रसादिरूपः । त. स्यैवोपक्रान्तत्वात् । वाक्यार्थीभूत इति । अवाक्यार्थीभूतस्तु रसादिरलंकारोऽपि स्यात् । यदुक्तम्-'प्रधानेऽन्यत्र वाक्यार्थे यत्राङ्गं तु रसादयः । काव्ये तस्मिन्नलंकारो रसादिरिति मे मतिः ॥' इति । एतच्च रसवदायलंकारप्रस्ताव एव निर्णष्यामः । इतिशब्दः प्रमेयपरिसमाप्तौ । एतदेव युक्तमित्याह-एष एवेत्यादि । सर्वैरिति । अवाक्यार्थविद्भिरसहृदयप्रायैरित्यर्थः । पक्षान्तरस्येति । तत्र तावद्वा. च्यवाचकमात्राश्रयिणामलंकाराणां मध्ये व्यङ्ग्यव्यञ्जकभावसमाश्रयेण व्यवस्थितत्वादस्यान्तर्भावो न युक्तः । यदुक्तम् -'व्यङ्गयव्यञ्जकसंबन्धनिबन्धनतया ध्वनेः । वाच्यवाचकचारुत्वहेत्वन्तःपतिता कुतः ॥' इति । लक्षणायामप्यस्यान्तीवो न युक्तः । तदसद्भावेऽस्य सद्भावात्तत्सद्भावे चास्यासद्भावात् । यदुक्तम् –'अतिव्याप्तेरथाव्याप्तेन चासौ लक्ष्यते तया' इति । नाप्यस्यालक्षणीयत्वं युक्तम् । 'यत्रार्थः शब्दो वा तमर्थमुपसर्जनीकृतस्वार्थो। व्यतः काव्यविशेषः स ध्वनिरिति सूरिभिः कथितः।।' इति। तदित्थमेतद्विप्रतिपत्तित्रयस्याप्रतिष्ठानमुपपादितम् । इदानीमन्योऽपि यः कश्चिद्विप्रतिप्रत्तिप्रकारः कैश्चिदुक्तः सोऽपि नोपपद्यत इत्याह-यत्त्वित्यादि।ध्वनिकारानन्तरभावी व्यक्तिविवेककार इति । तन्मतमिह पश्चानिर्दिष्टम् । यद्यपि वक्रोक्तिजीवितहृदयदर्पणकारावपि ध्वनिका. रानन्तरभाविनावेव । तथापि तौ चिरन्तरमतानुयायिनावेवेति तन्मतं पूर्वमेवोद्दिष्टम् । अनेन पुनरेतत्स्वोपज्ञमेवोक्तम् । अनुमानान्तर्भावमिति । अनुमानरूपत्वमेवेत्यर्थः । आख्यदिति । यदाह-'वाच्यस्तदनुमितो वा यत्रार्थोऽर्थान्तरं प्रकाशयति । संब
१. 'तद्भावे चास्य चासंभवातू' क. .