________________
अलंकारसर्वस्वम् ।
व्यापारस्य विषयमुखेन स्वरूपप्रतिलम्भात्तत्प्राधान्येन प्राधान्यात्स्वरूपेण विदितत्वाभावाद्विषयस्यैव समग्रभरसहिष्णुत्वम् । तस्माद्विषय एव व्यङ्ग्यनामा जीवितत्वेन वक्तव्यः । यस्य गुणालंकारकृतचारुत्वपरिग्रहसा
११
समप्रभरसहिष्णुत्वम्' इति । उपस्कर्तव्यत्वेनेति । तत्परतयावस्थानेनेत्यर्थः । यदुक्तम्—'वाच्यवाचकचारुत्वहेतूनां विविधात्मनाम् । रसादिपरता यत्र स ध्वनेर्विषयो मतः ॥ इति । अत एव विश्रान्तिधामत्वादित्युक्तम् । आत्मत्वमिति । सारभूतत्वमित्यर्थः । अतश्च तेन विना काव्यमेव न स्यादिति तात्पर्यम् । नहि निर्जीवं शरीरं काप्युपयुक्तम् । ननु यद्येवं तर्हि 'गङ्गायां घोष:' इत्यत्रापि व्यङ्गयस्य सद्भावात्काव्यत्वं प्रसज्यते । नैतत् । इह यद्वदात्मनो व्यापकत्वाच्छरीरे घटादौ (च) वर्तमानत्वेऽपि कर णादिविशिष्टे शरीर एव जीवव्यवहारो न घटादौ तद्वदस्यापि विविधगुणालंकारौचित्यचारुशब्दार्थशरीरगतत्वेनैवात्मत्वव्यवहारो नान्यत्रेति न कश्चिद्दोषः । ननु च सर्वत्र क्रियाया एवं प्राधान्यं प्रसिद्धमिह पुनर्विषयस्योक्तमिति किमेतदित्याशङ्कयाह — व्यापारस्येत्यादि । विषय मुखेनेति । यथा ह्योदनादेर्विक्लित्त्यादिमुखेन पाकादेः क्रियायाः स्वरूपोपलम्भः। तत्प्राधान्येनेति । विषयप्रधानत्वेनेत्यर्थः । तेन व्यापारस्य प्राधान्यमुपचरितमिति भावः । स्वरूपेणेति । स्वरूपं हि तस्य साध्यमानत्वाद्विचारयितुमशक्यम् । सिद्धस्य हि विचारो भवतीति भावः । एवकारो व्यञ्जनव्यापारव्यवच्छेदकः । समग्रेति । समग्रस्य भरस्यात्मेति व्यवहारादेः सहनशीलत्वमित्यर्थः । एतदेवोपसंहरति — तस्मादित्यादिना । यस्येति । व्यङ्ग्यनाम्नो रसाद्यात्मनो विषयस्य । गुणालंकारकृतचारुत्वेति । गुणानां 'ये रसस्याङ्गिनो धर्माः शौर्यादय इवात्मनः । उत्कर्ष हेतवस्ते स्युरचलस्थितयो गुणाः ॥ इत्यादिनीत्या साक्षादेव तद्धर्मत्वात् । अलंकाराणामपि 'उपकुर्वन्ति तं सन्तं येऽङ्गद्वारेण धर्मिणम् | हारादिवदलंकारास्तेऽनुप्रासोपमादयः ।।' इत्यादिनीत्या शब्दार्थलक्षणाङ्गातिशयद्वारेण तदुपस्कारकत्वात् । अलंकाराणां च रसादिरूपं व्यङ्गयमर्थमलंकुर्वतां मुख्यया वृत्यालंकारत्वम् | अलंकार्यसद्भावनिबन्धनत्वात्तस्य रसाद्यात्मन एव च व्यङ्गथस्यालंकार्यत्वेन प्रतिष्ठानात् । अत एव च यत्र स्फुटव्यङ्गयार्थरहितत्वं तत्र 'गुणवृत्त्या पुनस्तेषां वृत्तिः शब्दार्थयोर्मता' इत्यादिनीत्या शब्दार्थमात्र निबन्धनत्वेनोक्तिवैचित्र्यमात्र पर्यवसितत्वादेषां गौणमलंकारत्वम् । यदभिप्रायेणैव च चित्राख्यकाव्यभेदप्रकारत्वमलंकाराणां निरूपयिष्यते । अत एवानुप्रासादयोऽलंकाराश्चित्रमित्याद्यन्यैरुक्तम् । स च प्रतीयमानोऽर्थो यद्यपि वस्त्वलंकाररसत्वेन त्रिविधस्तथापि तेन विना काव्यात्मत्वाभावान्मुख्यत्वेन रसस्यैवात्मत्वं युक्तम् । अतश्च
·
१. 'कृतं' क.
१. 'काव्यं काव्यमेव न भवतीति तात्पर्यम्' क.