________________
काव्यमाला।
ऽलंकारवत्त्वेन चित्राख्यः काव्यभेदस्तृतीयः । तत्रोत्तमो ध्वनिः । तस्य लक्षणाभिधामूलत्वेनाविवक्षितवाच्यविवक्षितान्यपरवाच्याख्यौ द्वौ भेदौ । आद्योऽप्यर्थान्तरसंक्रमितवाच्यात्यन्ततिरस्कृतवाच्यत्वेन द्विविधः । द्वितीयोऽप्यसंलक्ष्यक्रमसंलक्ष्यक्रमव्यङ्गयतया द्विविधः । लक्षणमूलशब्दशक्तिमूलो वस्तुध्वनिरसंलक्ष्यक्रमव्यङ्गयः । अर्थशक्तिमूलो वस्तु(रसादि)
यितुमाह-लक्षणेत्यादि । लक्षणामूल इत्यविवक्षितवाच्यः । शब्दशक्तिमूल इति न पुनरर्थशक्तिमूलः । यद्यपि शब्दशक्तिमूलेऽर्थशक्तिरप्यस्ति तथापि तत्र तस्याः सहकारितया व्यवस्थानमिति प्राधान्याच्छब्दशक्तिमूलत्वमुक्तम् । एवमर्थशक्तिमूलत्वेऽपि शेयम् । वस्तुध्वनिरिति । रसालंकारव्यतिरिक्तस्य वस्तुमात्रस्य ध्वन्यमानत्वात् । तत्रार्थान्तरसंक्रमितवाच्यो वस्तुध्वनिर्यथा-'स्निग्धश्यामलकान्तिलिप्तवियतो वेलद्धलाका घना वाताः शीकरिणः पयोदसुहृदामानन्दकेकाः कलाः । कामं सन्तु दृढं कठो. रहृदयो रामोऽस्मि सर्व सहे वैदेही तु कथं भविष्यति हहा हा देवि धीरा भव ॥' अत्र रामशब्दो राज्यनिवासनाद्यसंख्येयदुःखभाजनत्वस्वरूपं वस्तु ध्वनति । अत्यन्ततिरस्कृतवाच्योऽपि यथा-'रविसंक्रान्तसौभाग्यस्तुषारावृतमण्डलः । निःश्वासान्ध इवाद. श्चिन्द्रमा न प्रकाशते ॥' अत्रान्धशब्दः स्वार्थे निमित्तीकृत्यादर्शनसाधारणविच्छायत्वादिधर्मजातं वस्तुरूपं व्यनक्ति । रसादीति । आदिशब्दाद्भावतदाभासादयः । तत्र रसध्वनिर्यथा-'त्वामालिख्य प्रणयकुपितां धातुरागैः शिलायामात्मानं ते चरणपतितं पावदिच्छामि कर्तुम् । अत्रैस्तावन्मुहुरुपचितैदृष्टिरालिप्यते मे क्रूरस्तस्मिन्नपि न स. हते संगमं नौ कृतान्तः ॥' अत्र विभावानुभावव्यभिचारिभिरभिव्यक्त एव रसः । भावध्वनिर्यथा-'जाने कोपपराङ्गखी प्रियतमा स्वप्नेऽद्य दृष्टा मया मा मा संस्पृश पाणिनेति रुदती गन्तुं प्रवृत्ता ततः । नो यावत्परिरभ्य चाटुकशतैराश्वासयामि प्रियां भ्रातस्तावदहं शठेन विधिना निद्रादरिद्रीकृतः ॥' अत्र विधिं प्रत्यसूयाख्यो व्यभिचारिभावः । रसाभासध्वनिर्यथा-'स्तुमः कं वामाक्षि क्षणमपि विना यं न रमसे विलेभे कः प्राणान्रणमखमुखे यं मृगयसे । सुलग्ने को जातः शशिमुखि यमालिङ्गसि बलात्तपःश्रीः कस्यैषा मदननगरि ध्यायसि तु यम् ॥' अ. त्रानेककामुकविषयोऽभिलाष इति रसाभासः । भावाभासध्वनिर्यथा-'राकासुधाकरमुखी तरलायताक्षी सा स्मेरयौवनतरङ्गितविभ्रमास्या । तत्कि करोमि विदधे कथ. मत्र मैत्री तत्स्वीकृतिव्यतिकरे क इवाभ्युपायः ॥' अत्रानौचित्यप्रवृत्ता चिन्तेति भावाभासः । भावप्रशमो यथा-'एकस्मिञ्शयने पराङ्मुखतया वीतोत्तरं ताम्यतोरन्योन्यं हृदयस्थितेऽप्यनुनये संरक्षतोर्गौरवम् । दंपत्योः शनकैरपाङ्गवलनामिश्रीभवच्चक्षुषोभमो मानकलिः सहासरभसव्यावृत्तकण्ठग्रहः ॥' अत्रासूयायाः प्रशम इति भावप्रशम