________________
अलंकार सर्वस्वम् ।
ध्वनिः संलक्ष्यक्रमव्यङ्ग्यः । शब्दार्थोभयशक्तिमूलो वस्तुध्वनिरलंकारध्वनिश्चेति । तत्र रसादिध्वनिरलंकारमञ्जर्यं दर्शितः । काव्यस्य शृङ्गारधानत्वात् । शिष्टस्तु यथावसरं तत्रैव विभक्तः । गुणीभूतव्यङ्गयो वाच्याङ्गत्वादिभेदैर्यथासंभवं समासोक्त्यादौ दर्शितः । चित्रं तु शब्दार्थालंकारखभावतया बहुतरप्रभेदम् । तथा हि
बे
१५
ध्वनिः । वस्तुध्वनिरलंकारध्वनिश्चेति । तत्रशब्दशक्तिमूलो वस्तुध्वनिर्यथा - 'निर्वा णवैरदहनाः प्रशमादरीणां नन्दन्तु पाण्डुतनयाः सह माधवेन । रक्तप्रसाधितभुवः क्षतविग्रहाश्च स्वस्था भवन्तु कुरुराजसुताः सभृत्याः ॥' अत्र कौरवाणां क्षतशरीरादिकत्वं वस्तुरूपं शब्दशक्त्यैव प्रतीयते । स एवार्थशक्तिमूलो यथा - —' अरससिरोमणि धुत्त अग्गिमो पुत्ति घणसमिद्धिमओ । इइ भणिएण णअङ्गी पप्फुल्लविलोअणा जाआ ॥' अत्रार्थशक्त्या ममैवोपभोग्योऽयमिति वस्तु व्यज्यते । स एवोभयशक्ति - मूलो यथा - ' - 'पेन्थि ण एत्थ सत्थरमत्थि मणं पत्थरत्थले ग्गामे । उग्गअपओहरं पेक्खिऊण जइ वससि ता वससु ॥' अत्र यद्युपभोगक्षमोऽसि तदा आस्स्वेति वस्तु वक्रौचित्यमाश्रित्य शब्दार्थशक्त्याभिव्यज्यत इत्युभयशक्तिमूलत्वम् । शब्दशक्तिमूलोSलंकारध्वनिर्यथा - 'उन्नतः प्रोल्लसद्धारः कालागुरुमलीमसः । पयोधरभरस्तन्व्याः कं न चक्रेऽभिलाषिणम् ॥' अत्र शब्दशक्त्या मेघलक्षणमर्थान्तरं प्रतीयते । प्रकृताप्रकृतयोश्चार्थयोरसंबद्धाभिधायित्वं मा प्रसासीदिति तयोरौपम्यं कल्प्यत इत्यलंकारध्वनिः । स एवार्थशक्तिमूलो यथा - ' - 'ती ताण सिरिसहोअररअणाहरणम्मि हिअअमेक्करसम् । बिम्बाहरे पिआणं णिवेसिअं कुसुमबाणेन ॥' अत्र कौस्तुभबिम्बाधरयोः केवलयैवाशक्त्यौपम्यं गम्यत इत्यर्थशक्तिमूलोऽलंकारध्वनिः । उभयशक्तिमूलो यथा - ' हिअअविदारणए धारासलिललुलिए ण रमइ तहा । तव दिट्ठी चिउरभरे पिआण जह वैरिखग्गम्मि ॥' अत्रोभयशक्त्या चिकुरभरखङ्गयोरौपम्यं गम्यते । इतिशब्दः प्रमेयपरिसमाप्तौ । एवं ध्वनेः प्रभेदजातं प्रदर्श्य क्रमप्राप्तं गुणीभूतव्यङ्गयस्यान्यतो योजयतिगुणीभूतेत्यादिना । दर्शित इति ध्वनिकारेण । यदाह - ' व्यङ्गस्य यत्र प्राधान्यं वाच्यमात्रानुयायिनः । समासोक्त्यादयस्तत्र वाच्यालंकृतयः स्फुटाः ॥' इति । एवं गुणी
'जण
१. ‘अलसशिरोमणिर्धूर्तानामग्रिमः पुत्रि धनसमृद्धिमयः । इति भणितेन नताङ्गी प्रफुलविलोचना जाता ॥' इति च्छाया. २. 'पथिक नात्र सस्तरमस्ति मनाक् प्रस्तरस्थले ग्रामे । उद्गतपयोधरं प्रेक्ष्य यदि वससि तद्वस ॥' इति च्छाया. ३. 'तत्तेषां श्रीसहोदररत्नाहरणे हृदयमेकरसम् । बिम्बाधरे प्रियाणां निवेशितं कुसुमबाणेन ॥' इति च्छाया. ४. 'जनहृदयविदारणके धारासलिललुलिते न रमति तथा । तव दृष्टिश्चि कुरभरे प्रियाणां यथा वैरिखने ॥' इति च्छाया.