Book Title: Akalanka Granthtrayam
Author(s): Bhattalankardev, Mahendramuni
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 258
________________ कारि० ५३-५५.] ६. षष्ठः प्रस्तावः ११३ पूर्वापरस्वभावाप्तिपरिहारयोः साध्यसाधनभावः । श (स)कलशक्तिविरहिणोऽवस्तुत्वे तदुपादानविच्छेदः, प्रकृतिविकारनान्तरीयकत्वादान्तरप्रसूतेः । त्रिलक्षणं प्रतिक्षणमविकल्पितं विकल्पलक्षणम्, अन्यतरव्यतिरेकेऽनुपपन्नम् । समुदायेऽसङ्करप्रसङ्गः । एकशः तल्लक्षणान्वये भेदकल्पनानर्थक्यम् । तदयम् उत्पाद एव तिष्ठति, नश्यति । नाशयेव तिष्ठति,उदेति । स्थितिरेव नश्यति उदेति ॥छ॥ प्रकृताऽशेषतत्त्वार्थप्रकाशपटुवादिनः। विब्रुवाणोऽब्रुवाणो वा विपरीतो निगृह्यते ॥५३॥ ५८. नित्य आत्मा कथमन्यथा कृतक इति ? न्यूनतया किलायमपि अस्मात् प्रत्यवस्थातुमकृतज्ञः स्वयमवयवान् कलयति । स्यादजग्रं परापेक्षमुदयं प्रलयं प्रति। 10 अभावस्थानपेक्षत्वं भावस्य परिनिष्ठिते ॥५४॥ ५६. न खलु अकृतकस्य नित्यत्वम् । उत्पादविगमक्रियाभावस्यैव क्षणिकस्यानपेक्षत्वम्। सिद्धासिद्धयोः तदयोगः । स्वयमात्मलाभं प्रति अपेक्षितपरपरिस्पन्दं नित्यं कथमकृतकम् ? सर्वदेशकालादिसम्बन्धसातत्ये तत्कृतोपकारापेक्षम् । व्यतिरेकेऽनवस्था, सम्बन्धासिद्धिः। स्वयमात्मलाभस्य कथश्चिद् व्यपदेशः। नित्यानित्ययोरचलयोः 15 अनुपकारेऽपि सत्स्वभावानतिक्रमाविशेषः । ‘कृतकाकृतकयोः नित्यानित्यस्वभावप्रतिषेधः' इति दूषणोद्भावने भूयस्तथैकान्तप्रतिषेधे श(स)कलकलाकलापसमाश्लेषजात्यन्तरप्रतिपत्तिनान्तरीयके प्रकृतसाधने परं पराक्रमते । तथाऽनित्यं कृतकत्वादित्यत्रापि सर्व समानम् । अविचालिनं (चलिनां) क्रियानिवृत्तिः, स्वभावान्तरलक्षणत्वात् सत्तायाः। तथाऽप्रतिपादने साधनदूषणसामर्थ्याऽपरिज्ञानम् । अज्ञाताऽकिश्चिात्क- 20 राभिधानेऽपि जयाभावः प्रकृतसाधनशक्तिवैगुण्येन । साध्ये परतिरस्कारो जल्पः तच्छक्तितो जयः। तत्र मिथ्योत्तरं या (जा) तिः यथाऽनेकात्मविद्विषाम् ॥५॥ ६०. सर्वमनेकान्तात्मकं सत्त्वात् इत्यत्र (वा) रेकाः प्रत्येकमाहोस्वित् समुदितम् ? सिद्धसाधनम् सर्वस्य अनेकात्मकताविगानम् । एकात्मकत्वप्रतिषेध (धे) 25 विरोधः। क्वचिदेकताऽभावे अनेकत्वाऽसिद्धिः। अथ एकैकशः एकात्मकत्वम् अन्यथा नानात्वम् । अधिकरणं प्रतिज्ञान्तरं पुनरकिश्चित्करम् । अथ एकत्वविधेः सामानाधिकरण्यम्; उभयदोषप्रसङ्गःसाध्यसाधनसम्बन्धासिद्धिः अथ तादात्म्यम् ; सङ्करः, परस्परानुप्रवेशः। विशेषे नैकाधिकरणत्वम् । संश्लेषे पुनरनवस्था। अतो निरू (रु) पाख्यतया १ पत्र "रोयः" ( सिद्धहेम० १-३-३६ ) इत्यनेन नाशः + एव = नाशयेव इति ज्ञेयम् । १५ For Private & Personal Use Only Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390