Book Title: Akalanka Granthtrayam
Author(s): Bhattalankardev, Mahendramuni
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 281
________________ १३६ लघीयस्त्रयस्य [ पृ० ३. पं० ७ ८४ A. “अवग्रहादीनां क्रमोपजनधर्माणां पूर्वं पूर्वं प्रमाणमुत्तरमुत्तरं फलम् ।" [ प्रमाणमी० ११॥३९ ] पृ० ३. पं० ७. 'परमार्थैकसंवित्ते' - अत्रायं पूर्वपक्ष: - संवेदनाद्वैतवादिनः खलु निरंशं संविदद्वयं मन्यमानाः कल्पिते संवेद्याकारे- सारूप्ये प्रमाणव्यवस्थां संवेदकाकारे5 अधिगतिस्वरूपे फलव्यवस्थाचोररीकुर्वन्ति । तथा चोक्तम् - " स्वसंवित्तिः फलं वात्र तद्रूपादर्थं निश्चयः । विषयाकार एवास्य प्रमाणं तेन मीयते ।" [ प्रमाणसमु० ११० ] "अर्थसारूप्यमस्य प्रमाणम् । तद्वशादर्थप्रतीतिसिद्धेरिति । [ न्यायवि० ११९, २०] "विषयाधिगति - श्चात्र प्रमाणफल मिष्यते । स्ववित्तिर्वा प्रमाणं सारूप्यं योग्यतापि वा ।। " [ तत्त्वसं० पृ० ३५८] पृ० ३. पं० ७. ‘क्षणभङ्गादेरपि ' - तत्रोत्तरम् - यतः निरंशसंवेदनं वस्तु तत एव 10 तन्निष्टक्षणिकत्वस्यापि स्वरूपवत् प्रत्यक्षविषयतैव स्यात् इति । ततश्च यथा प्रत्यक्षगृहीतक्षणिकत्वग्राहिणः अनुमानस्य प्रामाण्यं स्वीकुर्वन्ति बौद्धाः तथैव प्रत्यक्ष गृहीतनीलाद्यर्थं प्राहिणः संवृत्यपरनाम्नो विकल्पस्यापि प्रामाण्यं स्वीकुर्युः । न च तेषां मते विकल्पस्य प्रमाणता "गृहीतग्रहणान्नेष्ट सांवृतम् - दर्शनोत्तरकालं सांवृतं विकल्पज्ञानं प्रमाणं नेष्टं दर्शनगृहीतस्यैव ग्रहणात् तेनैव च प्रापयितुं शक्यत्वात् सांवृतम किञ्चित्करमेव ।" [ प्रमाणवा० मनोरथ० २।५ ] 15 इत्यभिधानात् । पृ० ३. पं० ११. 'अर्थक्रियार्थी हि' - तुलना - 'अर्थक्रियार्थी हि सर्वः प्रेक्षावान् प्रमाणमप्रमाणं वाऽन्वेषते ।" [ हेतुवि० लि० प्र० परि० ] तत्त्वसं० पं० पृ० ७७८ । पु ० ३ पं० ११. 'रूपादिक्षणक्षयादि' - अत्रायं भावः - सौगतानामिदमभिमतं यत् निर्विकल्पकप्रत्यक्षेण सर्वात्मना वस्तुनः स्वलक्षणस्य ग्रहणं भवति । " तस्मात् दृष्टस्य 20 भावस्य दृष्ट एवाखिलो गुणः ।" [ प्रमाणवा० १।४६ ] इति वचनात् । तत्र यद्यपि नीलं वस्तु सर्वात्मना प्रत्यक्षेण गृहीतं तथापि यस्मिन्नंशे विकल्पोत्पादकता निर्विकल्पकस्य तस्मिन्नेव शे प्रामाण्यम् अथ च प्रवृत्तिजनकत्वम् । तथा चोक्तम्- "प्रत्यक्षेण गृहीतेऽपि विशेषेऽशविवर्जिते । यद्विशेषावसायोऽस्ति प्रत्ययः सः प्रतीयते ॥" [ प्रमाणवा० १०५९] “अधिकल्पमपि ज्ञानं विकल्पोत्पत्तिशक्तिमत् । निःशेषव्यवहाराङ्गं तद्द्द्वारेण भवत्यतः ।। १३०६ ॥ 25 प्रत्यक्षमुत्पन्नमपि यत्रांशेऽवसायं जनयति स एवांशो व्यवहारयोग्यो गृहीत इत्याभिधीयते । यत्र तु भ्रान्तिनिमित्तवशात् समारोपप्रवृत्तेर्न व्यवसायं जनयितुमीशं स व्यवहार योग्यत्वाद् गृहीतोय गृहीतप्रख्य इति तत्र अनुमानस्य प्रवृत्तसमारोपव्यवच्छेदाय प्रवर्त्तमानस्य प्रामाण्यं भवति, न पुनः प्रत्यक्षानन्तरभाविविकल्पस्य तस्य प्रवृत्तसमारोपव्यवच्छेदाभावात् ।" [ तत्त्वसं० पं० पृ० ३९०] अतः नीलनिर्विकल्पकं नीलांशे व्यवसायं जनयत् तस्मिन्नेवांशे 30 प्रमाणम्, न पुनः क्षरणक्षयाद्यंशे तत्र व्यवसायजनकत्वाभावात् इति पूर्वपक्षतात्पर्यम् । उत्तरपक्षस्यायं भावः - यदा हि नीलनिर्विकल्पके नीलांशस्य क्षरणक्षयाद्यंशस्य च स्फुटः प्रतिभासः संजातः तदा किं कारणं यत् निर्विकल्पके खण्डशः- नीलांशे प्रामाण्यं न क्षणक्ष यांशे । यदि नीलविकल्पवशात् नीलांशे प्रामाण्यं तदा तदेव विकल्पज्ञानं मुख्यरूपतया फलं स्वीकर्त्तव्यम् । यदि च निर्विकल्पकात् विकल्पः संजायते तदा कुतो न अखंडशः - नीलां35 शवत् क्षणक्षयाद्यंशेऽपि विकल्पोत्पत्तिः इति ? पृ० ३. पं० १७. ' तथैकत्वम् ' - तुलना - "क्रमोपलब्धिनियमात् स्यादभेदः स्वसंविदाम् । सुखदुःखादिभेदेऽपि सहवीच्या नियामवत् ॥" [ सिद्धिवि० पृ० ३५९ ] Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390