Book Title: Akalanka Granthtrayam
Author(s): Bhattalankardev, Mahendramuni
Publisher: ZZZ Unknown
View full book text
________________
पृ० २२. पं० २४.]
टिप्पणानि
१५१
प्रमाणनयविभागाभावप्रसक्तेः; तथाहि - 'स्याज्जीव एव' इति किल प्रमाणवाक्यम् 'स्यादस्व जीवः' इति नयवाक्यम् । एतच्च द्वयमपि लघीयस्त्रय्यलङ्कारे साक्षादकलङ्केनोदाहृतम्, श्र योभयत्राप्यविशेषः तथाहि - स्याज्जीव एवेत्यत्र जीवशब्देन प्राणधारण निबन्धना जीवशब्दवाच्यताप्रतिपत्तिः अस्तीत्यनेनोद्भूताकारशब्दप्रयोगादजीवशब्दवाच्यतानिषेधः स्याच्छन्दप्रयोगतोऽसाधारणसाधारणधर्माक्षेपः । 'स्यादस्त्येव जीवः' इत्यत्र जीवशब्देन जीवशब्द- 5 वाच्यताप्रतिपत्तिः अस्तीत्यनेनोद्भूतविवक्षितास्तित्वावगतिः, एवकारप्रयोगात्तु यदाशंकितं सकलेऽपि जगति जीवस्य नास्तित्वं तद्वयवच्छेदः, स्यात्प्रदप्रयोगात् साधारणासाधारण प्रतिपत्तिरित्युभयत्राप्यविशेष एव ।" [ आव० नि० मलय० पृ० ३७१ A. ]
ॐ० यशोविजयैः सर्वमेतत् मलयगिरिमतं पूर्वपक्षीकृत्य इत्थं समाहितम् - " अत्रेदमवधेयम्- यो नाम नयो नयान्तरापेक्षस्तस्य प्रमाणान्तर्भावे व्यवहारनयः प्रमाणं स्यानू, तस्य तपः- 10 संयमप्रवचनग्राहकत्वेन संयमग्राहिनिश्चयविषयकत्वेन तत्सापेक्षत्वात् । शब्दनयानाञ्च निक्षेपचतुष्टयाभ्युपगन्तॄणां भावाम्युपगन्तृशब्दनयविषयविषयकत्वेन तत्सापेक्षत्वात्प्रमाणत्वापत्तिः । नयान्तरवाक्यसंयोगेन सापेक्षत्वे च ग्राह्ये स्यात्पदप्रयोगेण सप्रतिपक्षनयद्वय विषयावच्छेदकस्यैव लाभात् तेनानन्तधर्मात्मकत्वापरामर्शः । न चेदेवं तदानेकान्ते सम्यगेकान्तप्रवेशानुपपत्तिः, अवच्छेदकभेदं विना सप्रतिपक्षविषय समावेशस्य दुर्वचत्वात् । इष्यते चायम्, यदाह महामतिः- 15 'भयणा विहु भइयव्वा जह भयणा भसइ सव्वाइं । एवं भयरणा नियमो वि होइ समयाविराहरणया ।।' ( सन्मति० गा० ३।२७ ) इति । समन्तभद्रोऽप्याह- 'अनेकान्तोऽप्यनेकान्तः प्रमाणनयसाधनः । अनेकान्तः प्रमाणात्ते तदेकान्तोऽर्पितान्नयात् ॥' ( बहत्स्वय० श्लो० १०३ ) इति । पारमर्षेऽपि - 'इमा णं भंते रयणप्पभा पुढवी किं सासया असासया ? गोयमा ! सिय सासया सिय सासया । से केाणं भंते ! एवं वुश्चइ । गोयमा ! दव्वट्टयाए सासया पज्जवट्टयाए 20 असासया ।' (भगवतीसू० ) इति प्रदेशे स्यात्पदमवच्छेकभेदप्रदर्शकतयैव विवृतम्, अत एव स्यादित्यव्ययमनेकान्तद्योतकमेव तान्त्रिकैरुच्यते सम्यगेकान्तसाधकस्याने कान्ता क्षेपकत्वात्, न त्वनन्तधर्म परामर्श कम्, श्रतो न स्थात्पदप्रयोगमा त्राधीनमादेशसाकल्यं येन प्रमाणनयवाक्ययोर्भेदो न स्यात्, किन्तु स्वार्थोपस्थित्यनन्तरमशेषधर्माभेदोपस्थापकविधेयपदवृत्त्यधीनम्, सा च विवक्षाधीनेत्यादेशसाकल्यमपि तथेति नयप्रमाणवाक्ययोरित्थं भेद एव । मलयगिरिपादवचनं 25 तु प्रतिपक्षधर्माभिधानस्थलेऽवच्छेदकभेदाभिधानानुपयुक्तेन स्यात्पदेन साक्षादनन्तधर्मात्मकत्वाभिधानात्तत्र प्रमाणनयभेदानभ्युपगन्तृदुर्विदग्ध दिगम्बर निराकरणाभिप्रायेण योजनीयम् ।” [गुरुतत्त्ववि० पृ० १७ B.]
पृ० २२. पं० १. 'अप्रयुक्तोऽपि ' - "विधौ निषेधेऽन्यत्रापि ” आव०नि० मलय ०
30
पृ० ३६९ B. ] गुरुतत्त्ववि० पृ० १६ A.
तुलना - "सोऽप्रयुक्तोऽपि वा तज्ज्ञैः सर्वत्रार्थात् प्रतीयते । यथैवकारोऽयोगादिव्यवच्छेदप्रयोजनः ॥" तत्त्वार्थश्लो० पृ० १३७ ] स्या० रत्ना० पृ० ७१८ । रत्नाकरावता० पृ० ६१ । सप्तभंगि० पृ० ३१ । स्या० मं० पृ० २७९ । नयप्रदीप पृ० ९६ A.
पृ० २२. पं० ३. 'क्वचित् स्यात्कार' - तुलना - “ अत्रान्यत्रापि इति ं ं‘अनुषादातिदेशादिवाक्येषु ।” [ आव० नि० मलय० पृ० ३६९ B. ]
पृ० २२. पं० १०. 'लोको हि अर्थाप्त्यनाप्तिषु' – तुलना - “बुद्धिशब्दप्रमाणत्वं बाह्यर्थे सति नासति । सत्यानृतव्यवस्थैवं युज्यतेऽर्थाप्यनातिषु ||" [ आप्तमी० का० ८७ ] पृ० २२. पं० २४. 'नयाः सप्त' – “सत्त मूलणया पण्णत्ता तं जहा - गमे, संगहे,
Jain Education International
For Private & Personal Use Only
35
www.jainelibrary.org
Page Navigation
1 ... 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390