Book Title: Akalanka Granthtrayam
Author(s): Bhattalankardev, Mahendramuni
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 305
________________ १६० न्यायविनिश्चयस्य [ पृ०४१. पं० २२ नैवान्येन विना कचित् । विरुद्धोऽयं ततो हेतुर्यद्यस्ति सहवेदनम् ॥ पुनः स एवाह - यदि सहशब्द एकार्थः तदा हेतुरसिद्धः; तथाहि नटचन्द्रमल्लप्रेक्षासु न ह्येकेनैवोपलम्भो नीलादेः । नापि नीलतदुपलम्भयोः एकेनैवोपलम्भः । तथाहि - नीलोपलम्भेऽपि तदुपलम्भानामन्यसन्तानगतानामनुपलम्भात् । यदा च सत्त्वं प्राणभृतां सर्वे चित्तक्षणाः सर्वज्ञेनावसीयन्ते तदा कथमेकेनैवोपलम्भः सिद्धः स्यात् । किंच, अन्योपलम्भनिषेधे सत्ये कोपलम्भनियमः सिद्धयति । न चान्योपलम्भप्रतिषेधसंभवः; स्वभावविप्रकृष्टस्य विधिप्रतिषेधायोगात् । अथ सहशब्द एककाल विवक्षया; तदा बुद्धविज्ञेयचित्तेन चित्तचैत्तैश्च सर्वथाऽनैकान्तिकता हेतोः । यथा कि बुद्धस्य भगवतो यद्विज्ञेयं सन्तानान्तरचितं तस्य बुद्धज्ञानस्य च सहोपलम्भनियमेप्यस्त्येव च नानात्वम्, तथा चित्तचैत्तानां सत्यपि सहोपलम्भे नैकत्वमित्यतोऽनैकान्तिको हेतुरिति । स्या10 देतत् यद्यपि विपक्षे सत्त्वं न निश्चितं सन्दिग्धं तु ततश्चानैकान्तिको हेतुः सन्दिग्धविपक्षव्यावृत्तिकत्वात् । " [ तत्त्वसं० पं० पृ० ५६७-६९ ] शावरभा० बृहतीपं० १।५ । शा० भा० भामती २।२।२८ | योगसू० तत्त्ववै० ४। १४ । न्यायकणि० पृ० २६४ । अष्टश०, अष्टसह० पृ० २४२ । प्रमेयक० पृ० २१। न्यायकुमु० पृ० १२२ । सन्मति० टी० पृ० ३५२ । स्या० रत्ना० पृ० १५२ । 5 पृ० ४१. पं० २२. ' तत्र दिग्भाग' - तुलना - " षट्केन युगपद्योगात् परमाणोः 15 षडंशता । षणां समानदेशत्वात् पिण्डः स्यादरणुमात्रकः || ” [ विज्ञप्ति० विंशिका पृ० ७ ] चतुःशतक पृ० ४८ । “यद्वा सर्वात्मना वृत्तौ अनेकत्वं प्रसज्यते । एकदेशेन चानिष्टा नैको वा न कचिच्च सः ।। " [ तत्त्वसं० पृ० २०३ ] न्यायकुमु० पृ० २२७ । पृ० ४१. पं० २७, 'न चैकमेकरागादौ' - तुलना - "एकस्य चावृतौ सर्वस्यावृतिः स्यादनावृतौ । दृश्येत रक्ते चैकस्मिन् रागोऽरक्तस्य वाऽगतिः ॥ " [ प्रमाणवा० २२८५ ] "रक्ते 20 च भाग एकस्मिन् सर्वं रज्येत रक्तवत् । विरुद्धधर्मभावे वा नानात्वमनुषज्यते ।। ” [ तत्त्वसं ० पृ० १९८ ] अवयविनिरा० पृ० ८७ । न्यायकुमु० पृ० २२८ । तुलना - "तत्र चित्रं भवेदेकमिति वेत्सि ” [ प्रमाणसं० पू० १०३ ] पृ० ४३ पं० १८ 'अत्यासन्नानसंसृ' - पूर्वपक्ष:- “ अर्थान्तराभिसम्बन्धाज्जायन्ते sasur । उक्तास्ते संचितास्ते हि निमित्तं ज्ञानजन्मनः ॥ " [ प्रमाणवा ३।१९५ ] पृ० ४३. पं० २५. ' कारणस्याक्षये' - " तदुक्तं न्यायविनिश्चये - कारणस्या'..” [ सिद्धिवि० टी० पृ० ४६ B. ३१४ A. ३४३ A. ] पृ० ४३. पं० २६. 'समवायस्य' - अत्रायं पूर्वपक्ष:- श्रयुत सिद्धानामाधार्याधार30 भूतानां यः सम्बन्धः इहप्रत्ययहेतुः स समवायः । इह तन्तुषु पदः इह वीरणे कट इह द्रव्ये गुणकर्मणी 1" [ प्रश० भा० पृ० ६६९ ] पृ० ४४. पं० ३. 'शाखा वृक्षेऽपि ' - तुलना - लघी० टि० पृ० १४६ पं० ७ । पृ० ४४. पं० ६. 'तुलितद्रव्यसंयोगे ' - तुलना - " गुरुत्वाधोगती स्यातां यद्यस्य स्यात्तुलानतिः । " [ प्रमाणवा० ४।१५४ ] 25 पृ० ४२. पं० ५. 'चित्रं तदेकमिति' - अत्रायं पूर्वपक्ष:- " चित्रं तदेकमिति चेदिदं चित्रतरं ततः । नैकस्वभावं चित्रं हि मणिरूपं यथैव तत् ॥ " [ प्रमाणवा० ३।२०० | 35 पृ० ४४. पं० ११. 'आसूक्ष्मत: ' - तुलना - " आसूक्ष्माद् द्रव्यमालायास्तौल्यत्वादंशुपातवत् । द्रव्यान्तरगुरुत्वस्य गतिर्नेत्यपरोऽब्रवीत् ।। " [ प्रमाणवा० ४ । १५६ ] Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390