Book Title: Akalanka Granthtrayam
Author(s): Bhattalankardev, Mahendramuni
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 319
________________ 10 १७४ प्रमाणसमहस्य [पृ० १०२. पं० २५पृ० १०२. पं० २५. 'एकं चलं'-तुलना-न्यायवि० टि० पृ० १६४ पं० १३६ पृ०१०३.पं० १. 'स्खलक्षण'-अस्य व्याख्यानं न्यायनिनिश्चयविवरणे इत्थम्-"स्वलक्षणम् असङ्कीर्णपदेन स्वलक्षणस्य विशेषात्मकत्वं समानपदेन च सामान्यात्मकत्वमुक्तम् अतः सामान्यविशेषात्मकत्वात् सर्व वस्तु सविकल्पकमेव नाऽसहायस्वभावमत एवाह-सविकल्पकमिति (पृ० ३५२A.) समर्थमिति यस्मात् स्वकार्ये समर्थ शक्तं स्वलक्षणं तस्मादसङ्कीर्णमिति। स्खलक्षणस्य स्वरूपमाह स्वगुणैरेकम् इति। स्वग्रहणेन परगुणैरेकत्वाभावमावेदयन् 'चोदितोदधि खादेति' इत्यादेरनवकाशत्वं दर्शयति। गुणशब्देन च तस्य सामान्यवाचित्वात् गुणपर्यययोरुभयोरपि ग्रहणम् । अत एवाह -सहक्रमविवर्तिभिः इति ।" [न्यायवि० वि० पृ० ३५४ B.] पृ० १०३.५० ४. 'संशयविरोध'-तुलना-न्यायवि० टि० पृ० १७० पं० ६॥ पृ० १०३. पं० १५. 'विप्लवेऽपि'-तुलना-न्यायवि० टि० पृ० १५९ पं० १११ पृ० १०३. पं० २१. 'कस्यचित्कैवल्यं'-तुलना-"तस्य कैवल्यमेव अपरस्य वैकल्यमिति ।” [ हेतुबि० लि. ] अष्टश० अष्टसह० पृ० ५३। “पूर्वस्य कैवल्यम् अपरस्य वैकल्यम् ।” [ सिद्धिवि० पृ० ३६२ ] पृ० १०३. पं० २४ 'परापरविभागैक'-तुलना-"अधऊर्ध्वविभागादिपरिणाम15 विशेषतः। तानेव पश्यन् प्रत्येति शाखा वृक्षेऽपि लौकिकः ॥ जयश्च (अधश्च ) ऊवं च ये विभागा मूलशाखारूपा अवयवास्ते श्रादयो येषां पार्श्वमध्यविभागानां तैः सह परिणामविशेषः कथञ्चिदभेदपरिणामः तत इति, अभेदपरिणामाद्धि शाखाभिरिह शाखिनः शाखासु वृक्ष इत्येष प्रत्ययः परिदृश्यते 'यदि च शाखासु वृक्ष इति प्रत्ययात् तत्र वृक्षस्व कार्यत्वेन वृत्तिः वृचे शाखा इत्यपि प्रत्ययात् तासामपि तत्र तथा वृत्तिः प्राप्नुयात्, एवं च न यावच्छाखा 20 न तावद् वृक्षः न यावच्च वृक्षो न तावच्छाखा इति परस्पराश्रयादुभयाभावः परस्यापत्तेः इति आवेदयन्नाह-तानेव पश्यन् प्रत्येति शाखा वृक्षेऽपि लौकिकः इति । तानेव प्रकृतानवयवान् अवयविनं च पश्यन् प्रत्येति प्रतिपद्यते शाखा आधेयभूता वृक्षे आधारभूते न केवलं तासु वृक्षम् अपि तु तत्रापि ताः प्रत्येतीत्यपिशब्दार्थः । कः प्रत्येति ? लौकिकः " [ न्यायवि०वि० पृ० २२७ A.] 25 पृ० १०३. पं० २६. 'प्रमाणमात्मसात्कुर्वन-व्याख्या इत्थं द्रष्टव्या-"प्रमाण मवितथनिर्भासं ज्ञानम् आत्मसात्कुर्वन् प्रतीतिं यथार्थपरिच्छित्तिमतिल-येत् प्रत्याचक्षीत सौगतो ब्रह्मवादिवत् तामतिलयेत् । वितथा मिथ्याभिमता ये ज्ञानानां सन्तानविशेषाः कामिन्यादिविषयाः तरङ्गचन्द्रादिविषयाश्च प्रवाहभेदास्तेषु न केवलं न प्रमाणमन्तरेण तदनविलकनस्यापि तथाप्राप्तेः । न च तदात्मसात्करणं परस्योपपन्नम्।" [न्यायवि० वि०पृ० १६७ B.] तुलना-न्यायवि० टि० पृ० १५८ पं० ३३। पृ० १०३ पं० २८ 'चित्रं तदेक'-तुलना-न्यायवि० टि० पृ० १६० पं० २२ । व्याख्यानं त्वस्य न्यायविनिश्चयविवरणे इत्थम्-"चित्रं नानारूपं तद् बाह्य चित्रपतङ्गादि एकमभिन्नमित्येवं चेत् यदि मन्यते जैन इदमनन्तरोक्तं ततश्चिादतिशयेन चित्रं चित्रतरं विस्मयनीयतरम् । तथाहि-यदि नानारूपं नैकं विरोधात् इत्यसदेव एकत्वम्, तद्भावे 35 च नानारूपं तस्यापि परमाणुरूपस्याबुद्धिगोचरत्वात् इत्यसन्नेव तादृशो बहिर्थ इन्ति भवत्येव तद्वादिनामुपहास इति भावः । परस्थ तत्र प्रत्युपहासमाह-चित्रं शून्यमिदं सर्व वेत्सि चित्र 30 Jain Education International www.jainelibrary.org For Private & Personal Use Only

Loading...

Page Navigation
1 ... 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390