________________
10
१७४
प्रमाणसमहस्य [पृ० १०२. पं० २५पृ० १०२. पं० २५. 'एकं चलं'-तुलना-न्यायवि० टि० पृ० १६४ पं० १३६
पृ०१०३.पं० १. 'स्खलक्षण'-अस्य व्याख्यानं न्यायनिनिश्चयविवरणे इत्थम्-"स्वलक्षणम् असङ्कीर्णपदेन स्वलक्षणस्य विशेषात्मकत्वं समानपदेन च सामान्यात्मकत्वमुक्तम् अतः सामान्यविशेषात्मकत्वात् सर्व वस्तु सविकल्पकमेव नाऽसहायस्वभावमत एवाह-सविकल्पकमिति (पृ० ३५२A.) समर्थमिति यस्मात् स्वकार्ये समर्थ शक्तं स्वलक्षणं तस्मादसङ्कीर्णमिति। स्खलक्षणस्य स्वरूपमाह स्वगुणैरेकम् इति। स्वग्रहणेन परगुणैरेकत्वाभावमावेदयन् 'चोदितोदधि खादेति' इत्यादेरनवकाशत्वं दर्शयति। गुणशब्देन च तस्य सामान्यवाचित्वात् गुणपर्यययोरुभयोरपि ग्रहणम् । अत एवाह -सहक्रमविवर्तिभिः इति ।" [न्यायवि० वि० पृ० ३५४ B.]
पृ० १०३.५० ४. 'संशयविरोध'-तुलना-न्यायवि० टि० पृ० १७० पं० ६॥ पृ० १०३. पं० १५. 'विप्लवेऽपि'-तुलना-न्यायवि० टि० पृ० १५९ पं० १११
पृ० १०३. पं० २१. 'कस्यचित्कैवल्यं'-तुलना-"तस्य कैवल्यमेव अपरस्य वैकल्यमिति ।” [ हेतुबि० लि. ] अष्टश० अष्टसह० पृ० ५३। “पूर्वस्य कैवल्यम् अपरस्य वैकल्यम् ।” [ सिद्धिवि० पृ० ३६२ ]
पृ० १०३. पं० २४ 'परापरविभागैक'-तुलना-"अधऊर्ध्वविभागादिपरिणाम15 विशेषतः। तानेव पश्यन् प्रत्येति शाखा वृक्षेऽपि लौकिकः ॥ जयश्च (अधश्च ) ऊवं च
ये विभागा मूलशाखारूपा अवयवास्ते श्रादयो येषां पार्श्वमध्यविभागानां तैः सह परिणामविशेषः कथञ्चिदभेदपरिणामः तत इति, अभेदपरिणामाद्धि शाखाभिरिह शाखिनः शाखासु वृक्ष इत्येष प्रत्ययः परिदृश्यते 'यदि च शाखासु वृक्ष इति प्रत्ययात् तत्र वृक्षस्व कार्यत्वेन
वृत्तिः वृचे शाखा इत्यपि प्रत्ययात् तासामपि तत्र तथा वृत्तिः प्राप्नुयात्, एवं च न यावच्छाखा 20 न तावद् वृक्षः न यावच्च वृक्षो न तावच्छाखा इति परस्पराश्रयादुभयाभावः परस्यापत्तेः इति
आवेदयन्नाह-तानेव पश्यन् प्रत्येति शाखा वृक्षेऽपि लौकिकः इति । तानेव प्रकृतानवयवान् अवयविनं च पश्यन् प्रत्येति प्रतिपद्यते शाखा आधेयभूता वृक्षे आधारभूते न केवलं तासु वृक्षम् अपि तु तत्रापि ताः प्रत्येतीत्यपिशब्दार्थः । कः प्रत्येति ? लौकिकः " [ न्यायवि०वि०
पृ० २२७ A.] 25 पृ० १०३. पं० २६. 'प्रमाणमात्मसात्कुर्वन-व्याख्या इत्थं द्रष्टव्या-"प्रमाण
मवितथनिर्भासं ज्ञानम् आत्मसात्कुर्वन् प्रतीतिं यथार्थपरिच्छित्तिमतिल-येत् प्रत्याचक्षीत सौगतो ब्रह्मवादिवत् तामतिलयेत् । वितथा मिथ्याभिमता ये ज्ञानानां सन्तानविशेषाः कामिन्यादिविषयाः तरङ्गचन्द्रादिविषयाश्च प्रवाहभेदास्तेषु न केवलं न प्रमाणमन्तरेण तदनविलकनस्यापि तथाप्राप्तेः । न च तदात्मसात्करणं परस्योपपन्नम्।" [न्यायवि० वि०पृ० १६७ B.]
तुलना-न्यायवि० टि० पृ० १५८ पं० ३३। पृ० १०३ पं० २८ 'चित्रं तदेक'-तुलना-न्यायवि० टि० पृ० १६० पं० २२ ।
व्याख्यानं त्वस्य न्यायविनिश्चयविवरणे इत्थम्-"चित्रं नानारूपं तद् बाह्य चित्रपतङ्गादि एकमभिन्नमित्येवं चेत् यदि मन्यते जैन इदमनन्तरोक्तं ततश्चिादतिशयेन चित्रं चित्रतरं
विस्मयनीयतरम् । तथाहि-यदि नानारूपं नैकं विरोधात् इत्यसदेव एकत्वम्, तद्भावे 35 च नानारूपं तस्यापि परमाणुरूपस्याबुद्धिगोचरत्वात् इत्यसन्नेव तादृशो बहिर्थ इन्ति भवत्येव
तद्वादिनामुपहास इति भावः । परस्थ तत्र प्रत्युपहासमाह-चित्रं शून्यमिदं सर्व वेत्सि चित्र
30
Jain Education International
www.jainelibrary.org
For Private & Personal Use Only