________________
पृ० १०७. पं० ११. ]
टिप्पणानि
१७५
तमं तत इति । चित्रमिति - नानारूपं बाह्यं मयूरादि, कीदृशमिदं प्रत्यक्षवेद्यं सर्वं निरवशेषं वेत्सि जानासि कीदृशं शून्यम् नीरूपमिदम् इत्यत्रापि सम्बन्धनीयम्, इदं परस्य वचनं ततः चित्रतरातिशयेन चित्रं चित्रतमम् अनुपायस्यैव तदभाववेद्यस्य प्रतिपादनात् । " [ न्यायवि० वि० पु० २०५ B. ]
इति तृतीयः प्रस्तावः । -ale
पृ० १०४. पं० २. ' अन्यथाऽसंभवो' - तुलना - न्यायवि० टि० पृ० १६४ पं० १९ ॥ पृ० १०४. पं० ५. 'उदेष्यति शकटं'- तुलना - लघी० टि० पृ० १३९ पं० २०१
पृ० १०४, पं० ५. ‘कालादिधर्मिकल्पनायाम् ' – तुलना- “ यदि पुनराकाशं कालो वा धर्मी तस्य उदेष्यच्छकटवत्त्वं साध्यं कृतिकोदयसाधनं पक्षधर्म एवेति मतम् ; तदा धरित्रीधर्मिणि महोदध्याधाराग्निमत्त्वं साध्यं महानसधूमवत्त्वं साधनं पक्षधर्मोऽस्तु तथा च 10 महानसधूमो महोदधौ अग्निं गमयेदिति न कश्चिदपक्षधर्मो हेतुः स्यात् ....।" [ प्रमाणपरी ० पू० ७१ ] तत्त्वार्थश्लो० पृ० २०९ । जैनतर्कभा० पृ० १२ पं० १३ । “ कृतिकोदयपूरादेः कालादिपरिकल्पनात् । यदि स्यात्पक्षधर्मत्वं चाक्षुषत्वं न किंचनौ (किं ध्वनौ ) |” [जैनतर्कवा० पृ० १४०]
पृ० १०४. पं० १८. ' सत्प्रवृत्तिनिमित्तानि ' - तुलना - " अविरुद्धोपलब्धिः विधौ षोढा व्याप्यकार्यकारणपूर्वोत्तरसहचरभेदात् ।" [ परीक्षामु० ३।५४-७२ ] प्रमाणप० पृ० 15 ७३ | प्रमाणनय० ३।६४-७८ । प्रमाणमी० भाषाटि० पृ० । ८३ पं० २३ ।
5
पृ० १०४. पं० २४, 'निरुपाख्यत्वम् ' - तुलना - " सर्वसामर्थ्योपाख्याविरहलक्षणं हि निरुपाख्यमिति, उपाख्या श्रुतिः उपाख्यायतेऽनया इति कृत्वा । " [ वादन्याय पृ० ८ ] पृ० १०५. पं० १. 'सद्वयवहाराय ' - तुलना - " प्रतिषेधसिद्धिरपि यथोक्ताया एवानुपलब्धेः 'साच प्रयोगभेदादेकादशप्रकारा-स्वभावानुपलब्धिः, कार्यानुपलब्धिः, व्याप- 20 कानुपलब्धिः, स्वभावविरुद्धोपलब्धिः, विरुद्धकार्योपलब्धिः, विरुद्धव्याप्तोपलब्धिः, कार्यविरुद्धोपलब्धिः, व्यापक विरुद्धोपलब्धिः, कारणानुपलब्धिः; कारणविरुद्धोपलब्धिः, कारणविरुद्धकार्योपलब्धिः ।" [ न्यायवि० पृ० ४२ - ५४ ] परीक्षामु० ३।७३ - ८० । प्रमाणनय० ३।९०-९८ । पृ० १०५. पं० १६. ‘सद्वृत्तिप्रतिषेधाय ' - तुलना-न्यायबि० पृ० ४२–५४ । परीक्षामु० ३।६६-७२ । प्रमाणनय० ३।७९-८८ ।
25
पृ० १०६. पं० १६. 'अविप्रतिसार - " पश्चात्तापोऽनुतापश्च विप्रतीसार इत्यपि " [ अमरकोशः ] “ तत्र त्रिदूषण समुदाचारोऽकुशलं कर्माध्यचारति, तत्रै तत्रैव च विप्रतिसारबहुलो भवति ।" [ शिक्षासमु० पृ० १६० ] न विप्रतिसारः अविप्रतिसारः दोषरहित इत्यर्थः । पृ० १०७. पं० ४. 'स्वरुचि ' – तुलना - " इति स्वरुचिविरचितदर्शनप्रदर्शनमात्रम्" [ अष्टश०, अष्टसह० पृ० १०२ ]
Jain Education International
पृ० १०७. पं० ११. 'अप्रत्यक्षेऽपि' - अस्य व्याख्या न्यायविनिश्चयविवरणे इत्थम्"अप्रत्यक्षेऽपि' 'ज्ञानं नेति सन्तः प्रचक्षते ॥ - बहलतमःपटल परिपिहितलोचनदशायामप्रत्यक्षेऽपि विस्पष्टप्रतिभासाविषयेऽपि न केवलं विपुलविलसदा लोकपरिकलितदेशदशायां प्रत्यक्षेपि इत्यपिशब्दः । कस्मिन् ? देहे शरीरेऽस्मिन्नात्मीये प्रतीयमाने प्रत्यक्षं स्पष्टावभासं ज्ञानम्, कुत एतत् 35
For Private & Personal Use Only
30
www.jainelibrary.org