________________
१७६
प्रमाणसङ्ग्रहस्य
[पृ० १०७. पं० १३
स्वतन्त्रं यथा भवति तथाऽवभासनात् । किम् ? तद्गुणः तस्य देहस्य गुणः, तदाश्रयान्नेति सन्तः प्रचक्षते कथयन्ति । नहि तस्मिन्नप्रत्यक्षेपि प्रत्यक्षस्य तदा (द् ) गुणत्वं रूपादेराकाशगुणत्वप्रसङ्गात्.." [ न्यायवि० वि० पृ० ४५७ B. ]
पृ० १०७. पं० १३. 'सत्यं तमाहु'-अस्य व्याख्या इत्थम्-“सत्यमवितथम् 5 आत्मन एव विचारविषयतया प्रस्तुतत्वात्, आहुः आवेदयन्ति । के ? आचार्य (योः) विचार
ज्ञानप्रवर्तकाः कीदृशं तत् इत्याह-योऽवलोकते पश्यति । कया? विद्यया यथावस्थितवस्तुरूपावलोकनशक्तया 'कमवलोकते ? यथार्थ यो येन स्वभावेन स्थितोऽर्थः स यथार्थः तमिति'.. पुनरपि तत्स्वरूपमाह-विभ्रमैश्च मिथ्याकारग्रहणशक्तिविशेषैश्च, चशब्दः पूर्वसमुच्चयार्थः
अयथार्थ (थं) मिथ्याकार (२) योऽवलोकते 'कः पुनरसौ यो विद्यया यथार्थ विभ्रमैश्च 10 अयथार्थमवलोकते इत्याह-एषः प्रत्यात्मवेदनीयः कीदृशः पुनरेषोऽपि इत्याह-प्रभुः इति,
प्रभुत्वं पुनस्तस्य यथार्थाद्यवलोकने विषयाकारस्य व्यतिरिक्तविज्ञानस्य च अनपेक्षणात् .." [न्यायवि. वि० पृ० १५० B.]
पृ० १०७. पं० १५. 'तुलोनाम'-अस्य व्याख्या इत्थम्-"तुलाया उन्नामश्च ऊर्ध्वगमनं रसश्च तावधी (वादी) येषाम् अर्वाग्भागसास्नादीनां तेषां नहि स्फुटम्, किम् नामश्च 15 अधोगमनं रूपं च श्रादिर्येषां परभागविशेषणादीनां त एव हि (हे ) तवो येषां तेषां भावः
तत्त्वम् । कया युक्तया तत्तेषां न तुल्यकालतया [ सम] समयतया इति ? नहि समसमयत्वे युक्तो हेतुफलभावः परस्परमनुपयोगात् सव्येतरनारीकुचचूचुकवदनभ्युपगमात् । नचैवमहेतुः अव्यभिचारात्, नहि नामादेः उन्नामादिव्यभिचारः निर्व्यभिचाराया एव ततः तत्प्रतिपत्तेरुपलम्भात् ।" [ न्यायवि० वि० पृ० ५०९ A.]
__ पृ०१०७. पं०१७. 'अन्वयोऽन्य'-अस्य व्याख्यानमित्थम्-"अन्वयोऽनुगमः खण्डादिषु गौरिति तन्तुषु अयं पट इति रुचकादौ तदेवेदं सुवर्णमिति रूपः, स अन्यस्य कर्कादेः मृगादेश्च व्यवच्छेद एव नापरः। तथा सर्वस्मात् सजातीयात् विजातीयाच्च व्यतिरिच्यते भिद्यते इति व्यतिरेकः, स एव स्वलक्षणम्न पूर्वोक्तम्, ततः तस्मात् अन्वयात् स्वलक्षणाञ्च सर्वा
निरवशेषा व्यवस्था स्वाभिमतवस्तुव्यवस्थितिः इति एवं नृत्येत् नृत्यं कुर्यात् काक इव काकः 25 सौगतः तद्वयवस्थात्मनि नृत्यक्रियायाम् उपायात्मनः पिच्छभारस्य अभावात्, मयूर इव मयूरो चैन ( जैनः) तस्य तद्भावस्य निवेदनात् स इव तद्वदिति..." [न्यायवि० वि० पृ० ३६१ A.]
इति चतुर्थः प्रस्तावः ।
20
पृ० १०७. पं० २१. 'निर्व्यापारो'-तुलना व्याख्या च-"सत्ता सम्प्रतिबद्धैव परिणामे क्रियास्थितेः। निर्व्यापारो हि भावः स्यान्नित्यत्वे वा निरन्वये ।।-एवकारो भिन्नप्रक्रमः 30 परिणाम इत्यत्र दर्शनात्, ततः सत्त्वा (सत्ता) सत्त्वं सम्यक प्रतिबद्धा, क ? परिणाम एव नक्षण
भङ्गादौ, ततः तत्रैव सा हेतुः इत्यर्थः। एतदेव कुतः ? क्रियास्थितेः परिणाम एव क्रियायाः कार्यकरणस्य स्थितेः अवस्थानादिति, तदपि कस्मात् ? निर्व्यापारो व्यापारानिष्क्रान्तो हि यस्माद् भावः चेतनादिः स्याद् भवेत् , कस्मिन् सति ? निरन्वये क्षणभङ्गे, केव ? नित्यत्वे वा नित्यत्व
इव, वाशब्दस्य इवार्थत्वात् निरन्वय इव वा नित्यत्वे वा इति ।” [न्यायवि० वि० पृ० ५१६ B.] 35 पृ० १०८. पं० ३. 'इष्टविघातकृत'_“इष्टस्य शब्देनानुपात्तस्य विघातं करोति
विपर्ययसाधनात् इति इष्टविघातकृत् ।” [ न्यायबि० टी० पृ० १०३ ]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org