________________
पृ० १०२. पं० ε. ]
टिप्पणानि
१७३
दूरीकृतावकाशमेव ।" [ तत्त्वसं० पं० पृ० ९३२] " सत्यस्वप्नदर्शनं तु यदि वर्तमानस्य ..." [ विधिवि० पृ० १५९ ]
पृ० ६६. पं० ४. 'एकत्र निर्णये ' - तुलना - न्यायवि० टि० पृ० १५५ पं० १७ ॥ पृ० ६६. पं० ६. 'ईक्षणिकादे : ' – तुलना - न्यायवि० टि० पू० १६८ पं० ३।
पृ० ६६. पं० ११. ' लक्षणं' - अस्य व्याख्यानं न्यायविनिश्चयविवरणे इत्थम् - 5 "लक्षणं स्पष्टं प्रत्यक्षम् इत्येतत् समं सदृशं त्रिष्वपि प्रत्यक्षेषु । कस्तर्हि इन्द्रियप्रत्यक्षात् अतीन्द्रियप्रत्यक्षस्य विशेष इति चेत्; एतावान् विशेषः अशेषगोचरं निःशेषद्रव्यपर्यायपरिच्छेदरूपमतीन्द्रिय प्रत्यक्षम् । क्रमेण तद्गोचरमपीतरवदपि प्रत्यक्षमिति चेदाह - श्रक्रमम् इति । इन्द्रियायत्तत्वे कथमितरवत् तदप्यक्रमं तद्गोचरमिति चेदाह -करणातीतं करणानि इन्द्रियाणि अतीतमतिक्रान्तं तन्निरपेक्षत्वात् । तस्यैव समर्थनमकलङ्कम् इति, अविद्यमानज्ञानावरणादिकल्म- 10 षमित्यर्थः । तत्केषां प्रत्यक्षम् इत्याह- महीयसाम् महतामिति ।" [ न्यायवि० वि०पृ० ३९९A.] तुलना - न्यायवि० टि० पृ० १६२ पं० २५ ।
इति प्रथमः प्रस्तावः ।
-88880
पृ० ६६. पं० १५ ' प्रमाणमर्थ ' - तुलना - " प्रमाणमविसंवादात् मिथ्या तद्विपयात् । गृहीतग्रहणान्नो चेन्न प्रयोजनभेदतः || ” [ सिद्धिवि० पृ० १४६ A. ]
पृ० ६६. पं० २५. ' सदृशपरिणामः ' - तुलना - "सदृश परिणाम स्तिर्यक् खण्डमुडादिषु गोत्ववत् । ” [ परीक्षामु० ४४ ] प्रमाणनय० ५।४ ।
पृ० १००, पं० २६. 'एकमनेकत्र ' - तुलना - लघी० टि० पृ० १४५ पं० २८ ।
पृ० १००, पं० ३०. 'इति तर्क' - अस्य व्याख्यानं न्यायविनिश्चयविवरणे इत्थम् - " इति एवं तर्कमेव एवकारस्यात्र सम्बन्धात् नापरं तस्य प्रतिबन्धाविषयत्वादपेक्षितम्, किं 20 लैङ्गिकम् अनुमानं लिङ्गादागतत्वात् कथमपेक्षेत नियमेन अवश्यम्भावेन, तदनपक्षेखे तदनुत्पत्तेः ।" [ न्यायवि०वि० पृ० ५०४ B. ]
पृ० १०१. पं० ७, ‘विज्ञानगुणदोषाभ्याम् ' - "तदुक्तम् - विज्ञानगुणदोषाभ्यां [ अष्टसह ० पृ० ७४ ] "विवक्षामन्तरेणापि वाग्वृत्तिर्जातु वीक्षते । वाञ्छन्तो वा न वक्तारः शास्त्राणां मन्दबुद्धयः ।। " [ न्यायवि० पृ० ७७] " न च दोषजातिस्तद्धेतुर्यतस्तां वाणी नातिवर्त्तेत 25 तत्प्रकर्षापकर्षानुविधानाभावात् बुद्ध्यादिवत् ।" [अष्टश० अष्टसह ० पृ० ७३]
तुलना - " वचनस्य विज्ञानमेव कारणम् असति तस्मिन्निच्छायामपि तदभावात् ..,” [ न्यायवि० वि० पु०५२० A ]
इति द्वितीयः प्रस्तावः ।
Jain Education International
15
33
पृ० १०२. पं० १. 'साध्यं शक्य' - तुलना - न्यायवि० टि० पृ० १६२ पं० ३२ । 80 पृ० १०२. पं० २. 'भ्रान्तेः पुरुष' – तुलना - न्यायवि० टि० पृ० १६३ पं० ७ । पृ० १०२. पं० ६. ' साधनं ' - तुलना - न्यायवि० टि० पृ० १६४ पं० ७।
For Private & Personal Use Only
www.jainelibrary.org