Book Title: Akalanka Granthtrayam
Author(s): Bhattalankardev, Mahendramuni
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 327
________________ १८२ टिप्पणपरिशिष्टम् पृ०८६.पं०१. म्लेच्छादिव्यवहार'-तुलना-"म्लेच्छव्यवहारा अपि केचित् मातृविवाहादयो मदनोत्सवादयश्चानादयः, नास्तिक्यवचांसि च अपूर्वपरलोकाद्यपवादीनि । [प्रमाणवा० स्ववृ० १।२४७ ] पृ० ६१. पं०४. 'संशयादिप्रसंगः'-तुलना - “विरोधस्तावदेकान्ताद्वक्तुमत्र न 5 युज्यते" [ मी० श्लो० पृ० ५६० ] “यदप्युक्तं भेदाभेदयोर्विरोध इति; तदभिधीयते अनिरू पितप्रमाणप्रमेयतत्त्वस्येदं चोद्यम् । एकस्यैकत्वमस्तीति प्रमाणादेव गम्यते । नानात्वं तस्य तत्पूर्वं कस्माद्भेदोऽपि नेष्यते ।। यत् प्रमाणैः परिच्छिन्नमविरुद्धं हि तत् तथा । वस्तुजातं गवाश्वादि भिन्नाभिन्नं प्रतीयते ॥ न ह्यभिन्न भिन्नमेव वा कचित् केनचित् दर्शयितुं शक्यते । सत्ताज्ञेयत्वद्रव्यत्वादिसामान्यात्मना सर्वमभिन्नं व्यक्तात्मना तु परस्परवैलक्षण्याद्भिन्नम् । 10 तथाहि प्रतीयते तदुभयं विरोधः कोऽयमुच्यते । विरोधे चाविरोधे च प्रमाणं कारणं मतम् ॥ एकरूपं प्रतीतत्वात् द्विरूपं तत्तथेष्यताम् । एकरूपं भवेदेकमिति नेश्वरभाषितम् ॥ 'अत्र प्रागल्भ्यात् कश्चिदाह-यथा संशयज्ञानं स्थाणुर्वा पुरुषो वेत्यप्रमाणं तथा भेदाभेदज्ञानमिति; तदसत् ; परस्परोपमर्दैन न कदाचित् सह स्थितिः। प्रमेयानिश्चयाच्चैव संशयस्याप्रमाणता ॥ अत्र पुनः कारणं पूर्वसिद्धं मृत्सुवर्णादिलक्षणं ततः कार्यं पश्चाज्जायमानं तदाश्रितमेव 15 जायते . . . . . 'अतो भिन्नाभिन्नरूपं ब्रह्मेति स्थितम् । संग्रहश्लोकः-कार्यरूपेण नानात्वमभेदः कारणात्मना। हेमात्मना यथाऽभेदः कुण्डलाद्यात्मना भिदा ॥" [ भास्करभा० पृ० १६-१७ ] "... 'तस्मात् प्रमाणबलेन भिन्नाभिन्नत्वमेव युक्तम् । ननु विरुद्धौ भेदाभेदौ कथमेकत्र स्याताम् ? न विरोधः, सहदर्शनात् । यदि हि 'इदं रजतम्. नेदं रजतम्' इतिवत् परस्परोपमर्देन भेदाभेदौ प्रतीयेयाताम् ततो विरुद्धयेयाताम्, न तु तयोः परस्परोपमर्दैन प्रतीतिः । इयं गौरिति बुद्धिद्वयम् अपर्यायेण प्रतिभासमानमेकं वस्तु द्वयात्मक व्यवस्थापयति-सामानाधिकरण्यं हि अभेदमापादयति अपर्यायत्वं च भेदम्, अतः प्रतीतिबलादविरोधः। अपेक्षाभेदाच्च एवं धर्मिणो द्रव्यस्य रसादिधर्मान्तररूपेण रूपादिभ्यो भेदः द्रव्यरूपेण चाभेदः.." [शास्त्रदी० पृ० ३९३-९५] पृ० १०४. पं० ५. 'कालादिधर्मि' पूर्वपक्षः-"तथा न चन्द्रोदयात् समुद्र25 वृद्धयनुमानं चन्द्रोदयात् (पूर्व पश्चादपि ) तदनुमानप्रसङ्गात् । चन्द्रोदयकाल एव तदनुमानं तदैव व्याप्तेर्गृहीतत्वादिति चेत्, यद्येवं तत्कालसम्बन्धित्वमेव साध्यसाधनयोः। तदा च स एव कालो धर्मी तत्रैव च साध्यानुमानं चन्द्रोदयश्च तत्सम्बन्धीति कथमपक्षधर्मत्वम् ॥" [प्रमाणवा० स्ववृ० टी० ११३] पृ० १०५. पं० १३. 'अन्योपलम्भो'–तुलना-"यदाह-अन्यहेतुसाकल्ये तद30 व्यभिचाराच्चोपलम्भः सत्ता। तदभावोऽनुपलब्धिरसत्ता, अन्योपलब्धिश्चानुपलब्धिरिति ।" [प्रमाणवा० स्ववृ० टी० ११५] पृ० १०८. पं० २१. 'अदृश्यानुपलम्भात्'-पूर्वपक्षः-“अदृश्यानुपलम्भादभावासिद्धौ घटादेनॆरात्म्यासिद्धेः प्राणादेरनिवृत्तिः।" [ प्रमाणवा० स्ववृ० १।१९] पृ० १११. पं० ८. 'स विरुद्धो'-तुलना - "असिद्धस्त्वप्रतीतो यो योऽन्यथैवो35 पपद्यते । विरुद्धो योऽन्यथाप्यत्र युक्तोऽनैकान्तिकः स तु ॥" [ न्यायावता० श्लो० २३ ] पृ० ११२. पं० २८. 'योगक्षेम'-"अलब्धधर्मानुवृत्तियोगः । लब्धधर्मानुवृत्तिः क्षेमः।" [ प्रमाणवा० स्ववृ० १।२४ ] Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390