________________
१८२
टिप्पणपरिशिष्टम् पृ०८६.पं०१. म्लेच्छादिव्यवहार'-तुलना-"म्लेच्छव्यवहारा अपि केचित् मातृविवाहादयो मदनोत्सवादयश्चानादयः, नास्तिक्यवचांसि च अपूर्वपरलोकाद्यपवादीनि । [प्रमाणवा० स्ववृ० १।२४७ ]
पृ० ६१. पं०४. 'संशयादिप्रसंगः'-तुलना - “विरोधस्तावदेकान्ताद्वक्तुमत्र न 5 युज्यते" [ मी० श्लो० पृ० ५६० ] “यदप्युक्तं भेदाभेदयोर्विरोध इति; तदभिधीयते अनिरू
पितप्रमाणप्रमेयतत्त्वस्येदं चोद्यम् । एकस्यैकत्वमस्तीति प्रमाणादेव गम्यते । नानात्वं तस्य तत्पूर्वं कस्माद्भेदोऽपि नेष्यते ।। यत् प्रमाणैः परिच्छिन्नमविरुद्धं हि तत् तथा । वस्तुजातं गवाश्वादि भिन्नाभिन्नं प्रतीयते ॥ न ह्यभिन्न भिन्नमेव वा कचित् केनचित् दर्शयितुं शक्यते ।
सत्ताज्ञेयत्वद्रव्यत्वादिसामान्यात्मना सर्वमभिन्नं व्यक्तात्मना तु परस्परवैलक्षण्याद्भिन्नम् । 10 तथाहि प्रतीयते तदुभयं विरोधः कोऽयमुच्यते । विरोधे चाविरोधे च प्रमाणं कारणं मतम् ॥
एकरूपं प्रतीतत्वात् द्विरूपं तत्तथेष्यताम् । एकरूपं भवेदेकमिति नेश्वरभाषितम् ॥ 'अत्र प्रागल्भ्यात् कश्चिदाह-यथा संशयज्ञानं स्थाणुर्वा पुरुषो वेत्यप्रमाणं तथा भेदाभेदज्ञानमिति; तदसत् ; परस्परोपमर्दैन न कदाचित् सह स्थितिः। प्रमेयानिश्चयाच्चैव संशयस्याप्रमाणता ॥
अत्र पुनः कारणं पूर्वसिद्धं मृत्सुवर्णादिलक्षणं ततः कार्यं पश्चाज्जायमानं तदाश्रितमेव 15 जायते . . . . . 'अतो भिन्नाभिन्नरूपं ब्रह्मेति स्थितम् । संग्रहश्लोकः-कार्यरूपेण नानात्वमभेदः
कारणात्मना। हेमात्मना यथाऽभेदः कुण्डलाद्यात्मना भिदा ॥" [ भास्करभा० पृ० १६-१७ ] "... 'तस्मात् प्रमाणबलेन भिन्नाभिन्नत्वमेव युक्तम् । ननु विरुद्धौ भेदाभेदौ कथमेकत्र स्याताम् ? न विरोधः, सहदर्शनात् । यदि हि 'इदं रजतम्. नेदं रजतम्' इतिवत् परस्परोपमर्देन भेदाभेदौ प्रतीयेयाताम् ततो विरुद्धयेयाताम्, न तु तयोः परस्परोपमर्दैन प्रतीतिः । इयं गौरिति बुद्धिद्वयम् अपर्यायेण प्रतिभासमानमेकं वस्तु द्वयात्मक व्यवस्थापयति-सामानाधिकरण्यं हि अभेदमापादयति अपर्यायत्वं च भेदम्, अतः प्रतीतिबलादविरोधः। अपेक्षाभेदाच्च एवं धर्मिणो द्रव्यस्य रसादिधर्मान्तररूपेण रूपादिभ्यो भेदः द्रव्यरूपेण चाभेदः.." [शास्त्रदी० पृ० ३९३-९५]
पृ० १०४. पं० ५. 'कालादिधर्मि' पूर्वपक्षः-"तथा न चन्द्रोदयात् समुद्र25 वृद्धयनुमानं चन्द्रोदयात् (पूर्व पश्चादपि ) तदनुमानप्रसङ्गात् । चन्द्रोदयकाल एव तदनुमानं
तदैव व्याप्तेर्गृहीतत्वादिति चेत्, यद्येवं तत्कालसम्बन्धित्वमेव साध्यसाधनयोः। तदा च स एव कालो धर्मी तत्रैव च साध्यानुमानं चन्द्रोदयश्च तत्सम्बन्धीति कथमपक्षधर्मत्वम् ॥" [प्रमाणवा० स्ववृ० टी० ११३]
पृ० १०५. पं० १३. 'अन्योपलम्भो'–तुलना-"यदाह-अन्यहेतुसाकल्ये तद30 व्यभिचाराच्चोपलम्भः सत्ता। तदभावोऽनुपलब्धिरसत्ता, अन्योपलब्धिश्चानुपलब्धिरिति ।" [प्रमाणवा० स्ववृ० टी० ११५]
पृ० १०८. पं० २१. 'अदृश्यानुपलम्भात्'-पूर्वपक्षः-“अदृश्यानुपलम्भादभावासिद्धौ घटादेनॆरात्म्यासिद्धेः प्राणादेरनिवृत्तिः।" [ प्रमाणवा० स्ववृ० १।१९]
पृ० १११. पं० ८. 'स विरुद्धो'-तुलना - "असिद्धस्त्वप्रतीतो यो योऽन्यथैवो35 पपद्यते । विरुद्धो योऽन्यथाप्यत्र युक्तोऽनैकान्तिकः स तु ॥" [ न्यायावता० श्लो० २३ ]
पृ० ११२. पं० २८. 'योगक्षेम'-"अलब्धधर्मानुवृत्तियोगः । लब्धधर्मानुवृत्तिः क्षेमः।" [ प्रमाणवा० स्ववृ० १।२४ ]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org