________________
टिप्पणपरिशिष्टम् १० २. पं० ८. 'तत्र सांव्यवहारिकम् -उद्धृतमिदम्-"अकलङ्कोऽप्याहद्विविधं प्रत्यक्षज्ञानं साव्यवहारिकं मुख्यश्च । तत्र सांव्यवहारिकमिन्द्रियानिन्द्रियप्रत्यक्षम् । मुख्यमतीन्द्रियज्ञानमिति ।” [ नन्दि० मलय० पृ० ७४]
पृ० ५. पं० ८. 'नहि प्रत्यक्षम्'-तुलना-“यदाह-नहीदमियतो व्यापारान् कर्तुं समर्थमिति ।" [प्रमाणवा० स्ववृ० टी० ११४१]
पृ० ६. पं० १. 'सदृशापरापरोत्पत्ति'-पूर्वपक्षः-"स्वहेतोरेव तथोत्पत्तेः क्षणस्थितिधर्मतां तत्स्वभावं पश्यन्नपि मन्दबुद्धिः सत्तोपलम्भेन सर्वदा तथाभावस्य शङ्कया सदृशापरापरोत्पत्तिविप्रलब्धो वा न व्यवस्यति ।" [ प्रमाणवा० स्ववृ० ११३४]
__ पृ० ६. पं० ३. 'प्रतिसांवदितोत्पत्ति'- पूर्वपक्षः-"यहाह-न चेमाः कल्पना अप्रतिसंविदिता एव उदयन्ते व्ययन्ते चेति । नापि तत्प्रतिपत्तौ लिङ्गानुसरणेन तदाकार- 10 समारोपसंशयः शक्यते कल्पयितुम् ।" [ प्रमाणवा० स्ववृ० टी० ११५० ]
पृ० १६. पं० ११. 'श्रालोकोऽपि'-पूर्वपक्षः-"यथा इन्द्रियालोकमनस्काराः आत्मेन्द्रियमनस्कारा वा रूपविज्ञानमेकं जनयन्ति" [ प्रमाणवा० स्ववृ० ११७५ ]
पृ० १६. पं० २४. 'मलविद्ध'-उद्धृतमिदम्-नन्दि०मलय० पृ० ६६।
पृ० २२. पं० १३. 'वक्त्रभिप्रत'-पूर्वपक्षः-"अपि च वस्तुनान्तरीयकताभावात् 15 तेभ्यो नार्थसिद्धिः, ते हि वक्त्रभिप्रायसूचकाः।" [ प्रमाणवा० स्ववृ ११२१५ ]
पृ० २६. पं० १५. 'द्रव्यपर्याय'-तुलना---उत्पादादिसि० पृ० ७२, १३२॥
पृ० ३६. पं० २०. 'अद्वयं'-पूर्वपक्षः-“अद्वयानां द्वयप्रतिभासादिति । [प्रमाणवा० स्ववृ० १११०० ]
पृ० ३७. पं० १. 'तत्र शौद्धोदने'-तुलना-"तस्यैव तावदीदृशमतिस्थूलं प्रज्ञा- 20 स्खलितं कथं वृत्तं जातमिति कृत्वा सह विस्मयेन अनुकम्पया वर्त्तत इति सविस्मयानुकम्पं नोऽस्माकं चेतः। श्रुतवतोऽप्येवमविद्याविलसितमिति सविस्मयं गाढेन अविद्याबन्धेन सत्त्वाः पीड्यन्त इति सानुकम्पम् । तदत्र अपरेऽपि इदानींतन्मतानुसारिणः कुमारिलप्रभृतयः परीक्षकम्मन्या एवमेतदनुवदन्तीति निर्दयं निष्कृपमाक्रान्तं भुवनं जगद् येन तमसा तत्तथोक्तं धिव्यापकं तमः ।" [ प्रमाणवा० स्ववृ० टी० १।२४० ]
पृ० ४५. पं० ७. 'भेदज्ञानात्'-तुलना-उत्पादादिसि० पृ० ११९।
पृ०७४.१. 'अन्यथानुपपन्नत्वं'-कारिकेयं प्रमाणवा० स्ववृत्तिटीकायाम् (१।३ ) हेतुलक्षणपूर्वपक्षे 'तदुक्तम्' इति कृत्वा समुद्धृता ।
पृ०७६. पं० ३० 'दध्युष्ट्रादे'–पूर्वपक्ष:-"सर्वस्योभयरूपत्वम्-उभयग्रहणमनेकत्वोपलक्षणार्थम्, तस्मिन् सति तद्विशेषस्य 'उष्ट्र उष्ट्र एव न दधि, दधि दध्येव नोष्ट्रः' इत्येवं 30 लक्षणस्य निराकृतेः, 'दधि खाद, इति चोदितः पुरुषः किमुष्टं खादितुं नाभिधावति ? उष्ट्रोऽपि दध्यभिन्नात् द्रव्यत्वात् अव्यतिरेकात् स्याद् दधि, नापि स एवेति । उष्ट्र एवोष्ट्र इत्येकान्तवादः, येनान्योपि दध्यादिकः ( तः) स्यादुष्टः। तथा दध्यपि स्यादुष्टः, उष्ट्राभिन्नेन द्रव्यत्वेन दनस्तादात्म्येनाभिसम्बन्धात् । नापि तदेवेति, दध्येव दधि, येनान्यदपि उष्ट्रादिकं स्यादृधि । एतेन सर्वस्योभयरूपत्वं व्याख्यातम् ।” [प्रमाणवा० स्ववृ० टी० १।१८३] 35
25
२४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org