Book Title: Akalanka Granthtrayam
Author(s): Bhattalankardev, Mahendramuni
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 301
________________ १५६ न्यायविनिश्चयस्य न्तस्य त्यागात्, नाम्नः स्वलक्षणस्यापि स्वाभिधानविशेषानपेक्षस्यैव व्यवसायवचनात् । तदवचने वा न कचिद्वयवसाय: स्यात्, नामतदंशानामव्यवसाये नामार्थव्यवसायायोगात् । दर्शनेनाव्यवसायात्मना दृष्टस्याप्यदृष्टकल्पत्वात् सकलप्रमाणाभावः प्रत्यक्षस्याभावेऽनुमानोत्थानाभावात् । तत एव सकलप्रमेयापायः, प्रमाणापाये प्रमेयव्यवस्थानुपपत्तेः इत्यप्रमाणप्रमेयत्वम5 शेषस्यावश्य मनुषज्येत । तदुक्तं न्यायविनिश्चये - अभिलाप इति । 'अभिलापविवेकतः' इति अभिलापरहितत्वादिति व्याख्यानात् । प्रथमपक्षोपक्षिप्तदोषपरिजिहीर्षया तन्नामान्तरपरिकल्पनायामनवस्था । नामतदंशानामपि नामान्तरस्मृतौ हि व्यवसाये नामान्तरतदंशानामपि व्यवसायः स्वनामान्तरस्मृतौ सत्यामित्यनवस्था स्यात् । तथा च तदेवाप्रमाणप्रमेयत्वमवश्यमनुषज्येत । अत्रापि इयमेव कारिका योज्या 'अभिलापविवेकतः' इति अभिलापविनिश्चयात् 10 इति व्याख्यानात् ।" [ अष्टसह ० पृ० १२० ] तत्त्वार्थं श्लो० पृ० २४० । [ पृ० ३० पृ० ३०. पं० १८. 'आत्मनाऽनेकरूपेण' - " तदुक्तं न्यायविनिश्चये - थाल नाSनेकरूपेण इत्यादि ।" [ सिद्धिवि० टी० पृ० ५६ B. ५१२ A. ] पं० १८ पृ० ३१. पं० ३. 'परोक्षज्ञानविषय' - ' अत्र हि परोक्षज्ञानवादिनो मीमांसकस्य खण्डनम् । तन्मतश्र्वेत्थम् - " न ज्ञातेऽर्थे कश्चिद्धिमुपलभते ज्ञाते तु अनुमानादवगच्छति 15 तस्मादप्रत्यक्षा बुद्धिः ।" न चार्थव्यपदेशमन्तरेण बुद्धे रूपोपलम्भनम् । तस्मान्न बुद्धिविषयं प्रत्यक्षम्, अर्थविषयं हि तत् । अतः सिद्धमानुमानिकत्वं बुद्धेः फलतः ।" [ शाबरभा० बृहती पृ० ८७ ] तुलना - " परोक्षज्ञानार्थंपरिच्छेदः परोक्षवत् ।” प्रमाणसं ० पृ० ९८ पं० १७ ] पृ० ३१. पं० ६, 'अन्यथानुपपन्नत्व' - उद्धृतं पूर्वार्द्धं प्रमेयरत्नमालायां (३।१५) 20 प्रमाणनिर्णये च ( पृ० १२ ) तुलना - " तथा चान्यथानुपपन्नत्वमसिद्धस्य न सिद्ध्यति ।" [सिद्धिवि० पृ० १३४ A. ] पृ० ३१. पं० १३. ' अध्यक्षमात्मनि' - तुलना - " प्रत्यक्षमात्मनि ज्ञानमपरत्रानुमानिकम् । प्रत्यात्मवेद्यमाहन्ति तत्परोक्षत्वकल्पनाम् ॥” [ तत्त्वार्थश्लो० पू० १६६ ] पृ० ३१. पं० २५. 'विषयेन्द्रिय' - तुलना - " अपि चाध्यक्षताभावे धियः स्याल्लिं25 गतो गतिः । तच्चाक्षमर्थो धीः पूर्वो मनस्कारोऽपि वा भवेत् । कार्यकारण सामग्र्यामस्यां सम्बन्धिता परम् । सामर्थ्यादर्शनात्तत्र नेन्द्रियं व्यभिचारतः । तथार्थो धीमनस्कारौ ज्ञानं तौ च न सिद्ध्यतः । नाप्रसिद्धस्य लिंगत्वं व्यक्तिरर्थस्य चेन्मता ॥ [ प्रमाणवा० ३।४६१-६३ ] पृ० ३१. पं० २५. 'मनस्कारादि' - "मनस्कारश्चेतस आभोगः | आभुजनमाभोगः, आलम्बेन येन चित्तमभिमुखीक्रियते । स पुनरालम्बेन चित्तधारणकर्म | चित्तधारणं 30 पुनः तत्रवा ( तत्रैवा ) लम्बने पुनः पुनश्चित्तस्यावर्जनम् । एतच्च कर्म चित्तसन्ततेरालम्बननियमेन विशिष्टं मनस्कारमधिकृत्योक्तन् ।" [ त्रिशिकाभा० पृ० २० ] "विषये चेतस आवर्जनं ( अवधारणं) मनस्कारः मनः करोति श्रावर्जयतीति ।" [ अभिधर्मको० व्या० २।२४ ] Jain Education International पृ० ३२, पं० ७. 'असञ्चारोऽनवस्थानम् ' - तुलना - " ज्ञानान्तरेणानुभवेऽनवस्था तत्र च स्मृतिः । विषयान्तरसञ्चारस्तथा न स्यात् स चेष्यते ॥” [ प्रमाणसमु० १।१३ ] 35 " ज्ञानान्तरेणानुभवो भवेत्तत्रापि च स्मृतिः । दृष्ट्वा तद्वेदनं केन तस्यान्यन्येन चेदिमाम् || मालों ज्ञानविदां कोऽयं जनयत्यनुबन्धिनीम् । पूर्वा धीः सैव चेन्न स्यात्सचारो विषयान्तरे ।। " For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390