________________
१५६
न्यायविनिश्चयस्य
न्तस्य त्यागात्, नाम्नः स्वलक्षणस्यापि स्वाभिधानविशेषानपेक्षस्यैव व्यवसायवचनात् । तदवचने वा न कचिद्वयवसाय: स्यात्, नामतदंशानामव्यवसाये नामार्थव्यवसायायोगात् । दर्शनेनाव्यवसायात्मना दृष्टस्याप्यदृष्टकल्पत्वात् सकलप्रमाणाभावः प्रत्यक्षस्याभावेऽनुमानोत्थानाभावात् । तत एव सकलप्रमेयापायः, प्रमाणापाये प्रमेयव्यवस्थानुपपत्तेः इत्यप्रमाणप्रमेयत्वम5 शेषस्यावश्य मनुषज्येत । तदुक्तं न्यायविनिश्चये - अभिलाप इति । 'अभिलापविवेकतः' इति अभिलापरहितत्वादिति व्याख्यानात् । प्रथमपक्षोपक्षिप्तदोषपरिजिहीर्षया तन्नामान्तरपरिकल्पनायामनवस्था । नामतदंशानामपि नामान्तरस्मृतौ हि व्यवसाये नामान्तरतदंशानामपि व्यवसायः स्वनामान्तरस्मृतौ सत्यामित्यनवस्था स्यात् । तथा च तदेवाप्रमाणप्रमेयत्वमवश्यमनुषज्येत । अत्रापि इयमेव कारिका योज्या 'अभिलापविवेकतः' इति अभिलापविनिश्चयात् 10 इति व्याख्यानात् ।" [ अष्टसह ० पृ० १२० ] तत्त्वार्थं श्लो० पृ० २४० ।
[ पृ० ३०
पृ० ३०. पं० १८. 'आत्मनाऽनेकरूपेण' - " तदुक्तं न्यायविनिश्चये - थाल नाSनेकरूपेण इत्यादि ।" [ सिद्धिवि० टी० पृ० ५६ B. ५१२ A. ]
पं० १८
पृ० ३१. पं० ३. 'परोक्षज्ञानविषय' - ' अत्र हि परोक्षज्ञानवादिनो मीमांसकस्य खण्डनम् । तन्मतश्र्वेत्थम् - " न ज्ञातेऽर्थे कश्चिद्धिमुपलभते ज्ञाते तु अनुमानादवगच्छति 15 तस्मादप्रत्यक्षा बुद्धिः ।" न चार्थव्यपदेशमन्तरेण बुद्धे रूपोपलम्भनम् । तस्मान्न बुद्धिविषयं प्रत्यक्षम्, अर्थविषयं हि तत् । अतः सिद्धमानुमानिकत्वं बुद्धेः फलतः ।" [ शाबरभा० बृहती पृ० ८७ ]
तुलना - " परोक्षज्ञानार्थंपरिच्छेदः परोक्षवत् ।” प्रमाणसं ० पृ० ९८ पं० १७ ]
पृ० ३१. पं० ६, 'अन्यथानुपपन्नत्व' - उद्धृतं पूर्वार्द्धं प्रमेयरत्नमालायां (३।१५) 20 प्रमाणनिर्णये च ( पृ० १२ )
तुलना - " तथा चान्यथानुपपन्नत्वमसिद्धस्य न सिद्ध्यति ।" [सिद्धिवि० पृ० १३४ A. ] पृ० ३१. पं० १३. ' अध्यक्षमात्मनि' - तुलना - " प्रत्यक्षमात्मनि ज्ञानमपरत्रानुमानिकम् । प्रत्यात्मवेद्यमाहन्ति तत्परोक्षत्वकल्पनाम् ॥” [ तत्त्वार्थश्लो० पू० १६६ ]
पृ० ३१. पं० २५. 'विषयेन्द्रिय' - तुलना - " अपि चाध्यक्षताभावे धियः स्याल्लिं25 गतो गतिः । तच्चाक्षमर्थो धीः पूर्वो मनस्कारोऽपि वा भवेत् । कार्यकारण सामग्र्यामस्यां सम्बन्धिता परम् । सामर्थ्यादर्शनात्तत्र नेन्द्रियं व्यभिचारतः । तथार्थो धीमनस्कारौ ज्ञानं तौ च न सिद्ध्यतः । नाप्रसिद्धस्य लिंगत्वं व्यक्तिरर्थस्य चेन्मता ॥ [ प्रमाणवा० ३।४६१-६३ ] पृ० ३१. पं० २५. 'मनस्कारादि' - "मनस्कारश्चेतस आभोगः | आभुजनमाभोगः, आलम्बेन येन चित्तमभिमुखीक्रियते । स पुनरालम्बेन चित्तधारणकर्म | चित्तधारणं 30 पुनः तत्रवा ( तत्रैवा ) लम्बने पुनः पुनश्चित्तस्यावर्जनम् । एतच्च कर्म चित्तसन्ततेरालम्बननियमेन विशिष्टं मनस्कारमधिकृत्योक्तन् ।" [ त्रिशिकाभा० पृ० २० ] "विषये चेतस आवर्जनं ( अवधारणं) मनस्कारः मनः करोति श्रावर्जयतीति ।" [ अभिधर्मको० व्या० २।२४ ]
Jain Education International
पृ० ३२, पं० ७. 'असञ्चारोऽनवस्थानम् ' - तुलना - " ज्ञानान्तरेणानुभवेऽनवस्था तत्र च स्मृतिः । विषयान्तरसञ्चारस्तथा न स्यात् स चेष्यते ॥” [ प्रमाणसमु० १।१३ ] 35 " ज्ञानान्तरेणानुभवो भवेत्तत्रापि च स्मृतिः । दृष्ट्वा तद्वेदनं केन तस्यान्यन्येन चेदिमाम् || मालों ज्ञानविदां कोऽयं जनयत्यनुबन्धिनीम् । पूर्वा धीः सैव चेन्न स्यात्सचारो विषयान्तरे ।। "
For Private & Personal Use Only
www.jainelibrary.org