________________
पृ० ३४. पं० २५.] टिप्पणानि
१५७ [प्रमाणवा० ३।५१३-१४ ] "ज्ञानान्तरेणानुभवे सोऽर्थः स्वानुभवे सति । प्र (अ) सिद्धः सिद्धथसंसिद्धः कदा सिद्धो भवेत्पुनः।। तज्ज्ञानज्ञानजाती चेदसिद्धः स्वात्मसंविदि । परसंविदि सिद्धस्तु स इत्येतत्सुभाषितम् ।। तस्याप्यनुभवे ( ऽसिद्धे) प्रथमस्याप्यसिद्धता । तत्रान्यसंविदुत्पत्तावनवस्था प्रसज्यते ।। गोचरान्तरसञ्चारस्तथा न स्यात् स चेष्यते। गोचरान्तरसञ्चारे यदन्त्यं तत्स्वतोऽन्यतः॥ न सि (द्धयेत्तस्य चा) सिद्धौ सर्वेषामप्यसिद्धता। अतश्चान्ध्यम- 5 शेषस्य जगतः सम्प्रसज्यते ।।" [ तत्त्वसं० पृ० ५६४ ] तत्त्वार्थश्लो० पृ ० १६७ ।
पृ० ३३. पं० ६. 'सारूप्येऽपि'-पूर्वपक्षः-"हेतुभावाढते नान्या ग्राह्यता नाम काचन । तत्र बुद्धिर्यदाकारा तस्यास्तद् ग्राह्यमुच्यते ।।" [ प्रमाणवा० ३।२२४ ] "अर्थेन घटयत्येनां न हि मुक्त्वार्थरूपताम्। अन्यत्स्वभेदो ज्ञानस्य भेदकोऽपि कथञ्चन ।। तस्मात् प्रमेयाधिगतेः साधनं मेयरूपता।" [ प्रमाणवा० ३।३०५]
10 पृ० ३४. पं० १५. 'सत्यं तमाहुः'-"तदुक्तं न्यायविनिश्चये-सत्यं तमाहु.. सदर्थमसदर्थ वा. . . . ." [सिद्धिवि० टी० पृ० १८९] “सत्यं तमाहुर्विद्वांसो विद्यया विभ्रमेण यः।" [प्रमाणसं० पृ० १०७ ]
पृ० ३४. पं० १६. 'विषयज्ञान' -स्वसंवेदनज्ञानवादिभिः बौद्धैः हि विषयज्ञानतज्ज्ञानयोः भेददर्शनात् तदाकारता प्रसाध्यते। ग्रन्थकृता उक्तं यत्-विषयज्ञानतज्ज्ञानभेदः 16 निराकारत्वेऽपि सुघटः । बौद्धानां तदाकारतासाधनप्रकारः इत्थं द्रष्टव्यः
__ "विषयज्ञानतज्ज्ञानभेदाद् बुद्धर्द्विरूपता। स्मृतेरप्युत्तरे काले नह्यसावविभावितः ॥" [प्रमाणसमु० १।१२ ] " ननु चाकारः प्रमाणं स्वसंवेदनं फल मिति साकारसिद्धौ स्यात् , तदेव तु कथं सिद्धयति ? उक्तमत्र, अपि चविषयज्ञानतज्ज्ञानविशेषाद् बुद्धिरूपता।
20 विषये रूपादो यज्ज्ञानं तदर्थस्वाभासम्, विषयज्ञाने तु यज्ज्ञानं तदर्थानुरूपज्ञानाभासम् स्वाभासञ्च । अन्यथा यदि विषयज्ञानमर्थाकारमेव स्यात् स्वाकारमेव वा विषयज्ञानज्ञानमपि तदविशिष्टं स्यात् । विषये यत् ज्ञानं तदर्थस्वाभासमिति साध्यम् , उत्तरो हेतुः, अन्यथेत्यादि बाधकप्रमाणम् ।” [प्रमाणवात्तिकालं० पृ० ८३ ]
तुलना-"विषयज्ञानतद्विज्ञानयोरविशेष:-विषयाकारपरिच्छेदात्मनि ज्ञाने यदि स्वाकार- 25 परिच्छेदा न स्यात् तद्विषये विज्ञाने विषयाकाररूपतैवेति तयोरविशेषः स्यात् ।। [ राजवा० पृ० ३५ ] " घटविज्ञानतज्ज्ञानविशेषस्तेन दुर्लभः ।' [ मी० श्लो० पृ० ३२४]
पृ० ३४. पं० २५. 'अर्थज्ञानस्मृता'–बौद्धा हि विषयसंकलितज्ञानस्मृत्यन्यथानुपपत्त्या तदाकारतां प्रसाधयन्ति । केनचिदाशङ्कितम्-'यत् मास्तु तदाकारता, केवलं ज्ञानमर्थकार्यम्, अतः अर्थसंकलितज्ञानस्मरणं जायते, न तु तदाकारतया' तत्र समाहितं 30 बौद्धः-'यत् तदाकारतां विनापि यदि अर्थकार्यतामात्रेण अर्थसंकलितस्मरणं स्यात्तदा ज्ञानम्
आलोकस्य मनस्कारस्य वा कार्यं भवति, अतः आलोकसंकलितस्य मनस्कारसंकलितस्य वा ज्ञानस्य स्मरणं स्यात् । न च दृश्यते अतः स्वीकार्यम्-यत् यदाकारं ज्ञानं तदाकारानुरक्तस्य स्मरणमिति ।' यदि कारणत्वादेव अर्थस्य संकलनं ज्ञाने तदा घटेऽपि कुलालस्य कारणभूतस्य संकलनं स्यात् , तथा च घटस्मृतौ कुलालोऽपि स्मर्येत इत्यादि । ग्रन्थकृता अत्र तदाकारता- 35 स्थापनाय बौद्धैः य अतिप्रसङ्ग आपादितः स ज्ञानं निराकारं स्वीकृत्यापि शक्तिप्रतिनियमादेव समाहितः । अतिप्रसङ्गापादकः बौद्धग्रन्थस्त्वयम्
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org