________________
16
१५८ न्यायविनिश्चयस्य
[पृ० ३६. पं० ६"अर्थकार्यतया ज्ञानस्मृतावर्थस्मृतेर्यदि । भ्रान्त्या संकलनं ज्योतिर्मनस्कारेऽपि सा भवेत् ॥”
भ्रान्तिरिति सम्बन्धः । यद्यर्थस्य कार्य विज्ञानम् अथापि अर्थे कार्य व्यापारो यस्येति ज्ञानस्मृतौ नियमेन अर्थस्मरणम् , अतस्तदेव मूढमतिसन्तानस्य तथा भवति प्रतिपत्तिः ।
एवन्तर्हि ज्योर्तिमनस्कारेऽपि तथा प्रतीतिः स्यात् । यथा विषयकार्यता विज्ञानस्य तथा 5 आलोककार्यता मनस्कारकार्यतापि तेन द्वयसंकलनेनापि प्रतीयेत । न हि कायत्वे कश्चिद्विशेषः । अथ विषये व्यापृतत्वात् तत्संकलनं मनस्कारे तत्राव्यानि [प] तत्वात् तदा तर्हि आलोकेऽपि समान एव व्यापारः । न ह्यालोकमपहाय रूपे व्याप्रियते । तदसदेतत् । तस्माद्यथा आलोकप्रतिभासमिति न भवति तथा रूपप्रतिभासमिति न स्यात् । ....' 'तस्माद्रू
पाद्याकारमेव विज्ञानम् । कार्यतया तु तथा प्रतिपत्ती10 सर्वेषामपि कार्याणां कारणैः स्यात्तथा ग्रहः । कुलालादिविवेकेन न स्मर्येत घटस्ततः।।
तेनापि कार्योऽपि घटादिः स्वकारणविवेकेन न स्मर्येत । अथ अर्थकृतः कश्चिदतिशयो येन ज्ञानस्मरणे अर्थोवि (पि ) स्मयते, ज्ञानग्रहणे चार्थग्रहः, केवलस्य ज्ञानस्य न ग्रहणस्मरणे; घटादिस्तु केवलोऽपि गृह्यते तेनादानादिकञ्च । तदपि स्वपक्षबाधनाय । तथाहि'यस्मादतिशया (यो) ज्ञानमर्थसंसर्गभाजनम् । सारूप्यात्तत्किमन्यत्स्याद् दृष्टश्च यमलादिषु ॥
यदि तस्य विज्ञानस्य नाकारता तदाऽर्थग्रहणेनैव सह विज्ञानं गृह्यते स्मयते चेति कोऽयं नियमः । तदर्थान्तर्गतं तु नियमेन तद्ग्रहणेनैव गृह्यत इति भवति नियमः । तस्मादर्थस्वरूपमेव विज्ञानमर्थग्रहणनान्तरीयकग्रहणं तत्स्मरणनान्तरीयकस्मरणश्च ।।" [ प्रमाणवात्तिकालं० पृ० ८८-८९]
पृ० ३६. पं० ६. 'अन्तःशरीर'-प्रज्ञाकरो हि स्वप्नावस्थायां सूक्ष्मशरीरं 20 स्वप्नान्तिकनामानं स्वीकरोति । तस्मिन्नेव त्रासलंघनधावनादयो भवन्ति । तदेव स्वप्नान्तिक
शरीरमत्र ग्रन्थकृता 'अन्तःशरीर' शब्देन आक्षिप्तम् । तन्निर्दशश्चेत्थम्-“यथा स्वप्नान्तिकः कायः त्रासलकुनधावनैः । जाग्रदेइविकारस्य तथा जन्मान्तरेष्वपि ॥ [प्रमाणवात्तिकालं. लि० पृ० १४८] "प्रज्ञाकरस्तु स्वप्नान्तिकशरीरवादी स्वप्नदशायामपि व्यवहारादिनिर्भासज्ञा
नस्य साक्षात् चिकीर्षादिप्रभवनियममम्युपगच्छति'' [सिद्धिवि० टी० पृ० १३८ B.] 25 पृ० ३६. पं० १०. 'विप्लुताक्षा'-विज्ञानवादिनः विप्लुताक्षबुद्धि= तैमिरिक
चन्द्रद्वयबुद्धि-दृष्टान्तेन सर्वेषां प्रत्ययानां निरालम्बनत्वं साधयन्ति । तथाहि-" विज्ञप्तिमात्रमेवेदम् असदथोवभासनात् । यथा तैमिरिकस्यासत्केशचन्द्रादिदर्शनम् ।।" [विज्ञप्तिमात्र० विंशतिका पृ० १] "अत एव सर्वे प्रत्ययाः अनालम्बनाः प्रत्ययत्वात् स्वप्नप्रत्ययवदिति प्रमाणस्य परिशुद्धिः।" [प्रमाणवात्तिकालं० पृ० २२]
तुलना-" विप्लुताक्षा यथा बुद्धिः वितथप्रतिभासिनी। तथा सर्वत्र किन्नेति जडाः सम्प्रतिपेदिरे ।। सर्वज्ञानानां स्वयमविषयीकृतानां निर्विषयतासिद्धिः इष्टविघातकृत् विरुद्धःस्याद्वादलंघने ।" [सिद्धिवि० पृ० ३३७ ]
पृ० ३६. पं० १६. 'प्रमाणमात्मसात्कुर्वन्'-" तदुक्तं न्यायविनिश्चये-प्रमाणमात्मसात्कुर्वन् ' इत्यादि ।” [ सिद्धिवि० टी० पृ० २६८ B. ] प्रमाणसं० पृ० १०३। 35 पृ० ३६. पं० २८. 'इन्द्रजालादिषु'-" तथा चोक्तमकलंकदेवैः- इन्द्रजाला
दिषु'" [आप्तप० पृ० ४९ ] सिद्धिवि० टी० पृ० २०८ B.
30
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org