________________
पृ० ४१. पं० . ]
टिप्पणानि
१५६
पृ० ३७. पं० १. 'तत्र शौद्धोदनेरेव' - " तदुक्तं न्यायविनिश्चये - तत्र शौद्धोदनेरेव'' तत्राद्यापि जडासक्तास्तमसो ” [ अष्टसह ० पृ० ११६ ]
तुलना - " शौद्धोदनेरेव प्रज्ञापराधोऽयं लोकातिक्रान्तः कथं बभूवेत्यतिविस्मयमास्महे । तन्मन्ये ( तमन्ये ) पुनरद्यापि कीर्त्तयन्तीति किं बत परमन्यत्र मोहनीयप्रकृतेः । " [ अष्टश०, अष्टसह० पृ० ११६] “ कथञ्चिद् याथात्म्यप्रतिपत्तिमन्तरेण यथादर्शनमेवेत्यादि ब्रुवतः क्षणि 5 कभ्रान्तै कान्तचित्तसन्तानान्तराणि स्वभावनैरात्म्यं वा ब्रुवतः शौद्धोदनेः तावदयं प्रज्ञापराधः कथमिति सविस्मयं सकरुणं नश्चेतः । सन्त्यस्यापि अनुवक्कार इति किमन्यदनात्मज्ञतायाः । " [ सिद्धिवि० पृ० ७४ ] “आचार्यस्तस्यैव तावदिदमीदृशं प्रज्ञास्खलितं कथं वृत्तमिति सविस्मयानुकम्पन्नश्चेतः । तदपरेऽप्यनुवदन्तीति निर्दयाक्रान्तभुवनं दिव्यापकं तमः । ” [ वादन्यायटी० पृ० ५१ ]
पृ० ३७. पं० ६. 'विभ्रमे विभ्रमे' - तुलना - "भ्रान्तावपि यदि भ्रान्तिः भ्रान्तिरेव विशीयते । भ्रान्तात्रभ्रान्ततावित्तौ भ्रान्तिः सेति प्रतीयते ।। " [ प्रमाणवार्तिकालं ० लि०पृ० ३०३] " तदुक्तं न्यायविनिश्चये - विभ्रमे " [सिद्धिवि० टी० पृ० ६२A.] अष्टसह०पृ०११६ । "सर्वथा विभ्रमे तस्य " [ प्रमाणसं० पृ० १०६ ]
पृ० ३८. पं० ३. ' परितुष्यति' - अत्रायं पूर्वपक्ष:- “ मणिप्रदीपप्रभयोः मणि- 15 बुद्धाभिधावतोः । मिथ्याज्ञानाविशेषेऽपि विशेषोऽर्थक्रियां प्रति ।। " [ प्रमाणवा० ३।५७ ]
पृ० ४०, पं० ६८. 'विज्ञप्तिर्वितथा' - पूर्वपक्ष:- " यथा [ स्वप्र ] त्ययापेक्षादविद्योपप्लुतात्मनाम् । विज्ञप्तिर्वितथाकारा जायते तिमिरादिवत् || असंविदिततत्त्वा च सा सर्वापरदर्शनैः । " [ प्रमाणवा० ३।२१७ ]
10
पृ० ४१. पं० ६. ' सहोपलम्भ' - विज्ञानत्रादिनः अर्थसंविदोः सहोपलम्भनि - 20 यमादभेदं साधयन्ति । तथाहि - " सकृत्संवेद्यमानस्य नियमेन धिया सह । विषयस्य ततोऽन्यत्वं केनाकारेण सिद्धयति ।। विषयस्य हि नीलादेर्धिया सह सकृदेव संवेदनम् । धिया सह न पृथक् । ततः संवेदनादपरो विषय इति कथम् ? " [ प्रमाणवात्तिकालं० पृ० ९१ ] " यद् यस्मादपृथक संवेदनमेव तत्तस्मादभिन्नं यथा नीलधीः स्वस्वभावात् । यथा वा तैमिरिकज्ञानप्रतिभासी द्वितीय उडुपः - चन्द्रमाः । नीलधीवेदनवेदम् इति पक्षधर्मोपसंहारः । धयंत्र 25 नीलाकार तद्धियौ, तयोरभिन्नत्वं साध्यधर्मः, यथोक्तः सहोपलम्भनियमो हेतुः । ईदृश एवाचार्यो ये प्रयोगे हेत्वर्थोऽभिप्रेतः ।" [ तत्त्वसं० पं० पृ० ५६७ ]
तुलना - " सहोपलम्भनियमात् स्याद्भेदो नीलतद्धियोः । असहानुपलम्भश्चेत् श्रसिद्धः पृथगीक्षणात् ॥ सहोपलम्भनियमादभेदै कान्तसाधने न कचिङ्क्रान्तिज्ञानं स्यात् सुषुप्तवत् भ्रान्तिप्रत्यक्षयोः तेन तदेकान्तः, भ्रान्तिविविक्तप्रत्यक्षस्वभावोपपत्तेः । बहिरन्तश्च नीलतद्धि - 30 यदर्शनात् कुतः सहोपलम्भनियमः सिद्धः ? सकृदेकार्थोपनिबद्धदृष्टीनां परज्ञानानुपलम्भे तदर्थदर्शनात् कुतो नियमः ? तदेकक्षणवर्त्तिनां सहोपलम्भनियमात् स्वयं वा उत्पत्तेः सकलजगदेकसन्तानं प्रसज्येत । यदि पुनरेकज्ञानोपलम्भनियमः; असिद्धो हेतुः अनैकान्तिकश्च, नीलस्य अनेकज्ञानोपलम्भवत् बहूनामपि द्रव्याणामेकज्ञानोपलम्भाप्रतिषेधात् । यद्यसहानुपलम्भ:; को विशेषः ? प्रसज्यप्रतिषेधमात्रमसाध्यसाधनम् सस्येव (?) अर्थादर्थगतिलक्षणात् ।” 35 [ सिद्धिवि० पृ० ३३३ - ३३६ ] प्रमाणसं ० पृ० १०९ ।
" तत्र भदन्तशुभगुप्तस्त्वाह - विरुद्धोऽयं हेतुः यस्मात् सहशब्दशब्दश्च लोकेऽन्यो (स्या)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org