________________
१३६
लघीयस्त्रयस्य
[ पृ० ३. पं० ७
८४ A. “अवग्रहादीनां क्रमोपजनधर्माणां पूर्वं पूर्वं प्रमाणमुत्तरमुत्तरं फलम् ।" [ प्रमाणमी० ११॥३९ ]
पृ० ३. पं० ७. 'परमार्थैकसंवित्ते' - अत्रायं पूर्वपक्ष: - संवेदनाद्वैतवादिनः खलु निरंशं संविदद्वयं मन्यमानाः कल्पिते संवेद्याकारे- सारूप्ये प्रमाणव्यवस्थां संवेदकाकारे5 अधिगतिस्वरूपे फलव्यवस्थाचोररीकुर्वन्ति । तथा चोक्तम् - " स्वसंवित्तिः फलं वात्र तद्रूपादर्थं निश्चयः । विषयाकार एवास्य प्रमाणं तेन मीयते ।" [ प्रमाणसमु० ११० ] "अर्थसारूप्यमस्य प्रमाणम् । तद्वशादर्थप्रतीतिसिद्धेरिति । [ न्यायवि० ११९, २०] "विषयाधिगति - श्चात्र प्रमाणफल मिष्यते । स्ववित्तिर्वा प्रमाणं सारूप्यं योग्यतापि वा ।। " [ तत्त्वसं० पृ० ३५८]
पृ० ३. पं० ७. ‘क्षणभङ्गादेरपि ' - तत्रोत्तरम् - यतः निरंशसंवेदनं वस्तु तत एव 10 तन्निष्टक्षणिकत्वस्यापि स्वरूपवत् प्रत्यक्षविषयतैव स्यात् इति । ततश्च यथा प्रत्यक्षगृहीतक्षणिकत्वग्राहिणः अनुमानस्य प्रामाण्यं स्वीकुर्वन्ति बौद्धाः तथैव प्रत्यक्ष गृहीतनीलाद्यर्थं प्राहिणः संवृत्यपरनाम्नो विकल्पस्यापि प्रामाण्यं स्वीकुर्युः । न च तेषां मते विकल्पस्य प्रमाणता "गृहीतग्रहणान्नेष्ट सांवृतम् - दर्शनोत्तरकालं सांवृतं विकल्पज्ञानं प्रमाणं नेष्टं दर्शनगृहीतस्यैव ग्रहणात् तेनैव च प्रापयितुं शक्यत्वात् सांवृतम किञ्चित्करमेव ।" [ प्रमाणवा० मनोरथ० २।५ ] 15 इत्यभिधानात् ।
पृ० ३. पं० ११. 'अर्थक्रियार्थी हि' - तुलना - 'अर्थक्रियार्थी हि सर्वः प्रेक्षावान् प्रमाणमप्रमाणं वाऽन्वेषते ।" [ हेतुवि० लि० प्र० परि० ] तत्त्वसं० पं० पृ० ७७८ ।
पु ० ३ पं० ११. 'रूपादिक्षणक्षयादि' - अत्रायं भावः - सौगतानामिदमभिमतं यत् निर्विकल्पकप्रत्यक्षेण सर्वात्मना वस्तुनः स्वलक्षणस्य ग्रहणं भवति । " तस्मात् दृष्टस्य 20 भावस्य दृष्ट एवाखिलो गुणः ।" [ प्रमाणवा० १।४६ ] इति वचनात् । तत्र यद्यपि नीलं वस्तु सर्वात्मना प्रत्यक्षेण गृहीतं तथापि यस्मिन्नंशे विकल्पोत्पादकता निर्विकल्पकस्य तस्मिन्नेव
शे प्रामाण्यम् अथ च प्रवृत्तिजनकत्वम् । तथा चोक्तम्- "प्रत्यक्षेण गृहीतेऽपि विशेषेऽशविवर्जिते । यद्विशेषावसायोऽस्ति प्रत्ययः सः प्रतीयते ॥" [ प्रमाणवा० १०५९] “अधिकल्पमपि ज्ञानं विकल्पोत्पत्तिशक्तिमत् । निःशेषव्यवहाराङ्गं तद्द्द्वारेण भवत्यतः ।। १३०६ ॥ 25 प्रत्यक्षमुत्पन्नमपि यत्रांशेऽवसायं जनयति स एवांशो व्यवहारयोग्यो गृहीत इत्याभिधीयते । यत्र तु भ्रान्तिनिमित्तवशात् समारोपप्रवृत्तेर्न व्यवसायं जनयितुमीशं स व्यवहार योग्यत्वाद् गृहीतोय गृहीतप्रख्य इति तत्र अनुमानस्य प्रवृत्तसमारोपव्यवच्छेदाय प्रवर्त्तमानस्य प्रामाण्यं भवति, न पुनः प्रत्यक्षानन्तरभाविविकल्पस्य तस्य प्रवृत्तसमारोपव्यवच्छेदाभावात् ।" [ तत्त्वसं० पं० पृ० ३९०] अतः नीलनिर्विकल्पकं नीलांशे व्यवसायं जनयत् तस्मिन्नेवांशे 30 प्रमाणम्, न पुनः क्षरणक्षयाद्यंशे तत्र व्यवसायजनकत्वाभावात् इति पूर्वपक्षतात्पर्यम् ।
उत्तरपक्षस्यायं भावः - यदा हि नीलनिर्विकल्पके नीलांशस्य क्षरणक्षयाद्यंशस्य च स्फुटः प्रतिभासः संजातः तदा किं कारणं यत् निर्विकल्पके खण्डशः- नीलांशे प्रामाण्यं न क्षणक्ष यांशे । यदि नीलविकल्पवशात् नीलांशे प्रामाण्यं तदा तदेव विकल्पज्ञानं मुख्यरूपतया फलं स्वीकर्त्तव्यम् । यदि च निर्विकल्पकात् विकल्पः संजायते तदा कुतो न अखंडशः - नीलां35 शवत् क्षणक्षयाद्यंशेऽपि विकल्पोत्पत्तिः इति ?
पृ० ३. पं० १७. ' तथैकत्वम् ' - तुलना - "क्रमोपलब्धिनियमात् स्यादभेदः स्वसंविदाम् । सुखदुःखादिभेदेऽपि सहवीच्या नियामवत् ॥" [ सिद्धिवि० पृ० ३५९ ]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org