________________
पृ० ४. पं० ३.] टिप्पणानि
१३७ पृ० ३. पं० १८. 'प्रमाणफलयो'-"इत्युक्तं लघीयत्रये प्रमाणफलयोः क्रमभावेऽपि तादात्म्यं प्रत्येयम् ।” [ सिद्धिवि० टी० पृ० ९९ B. ]
इति प्रमाणप्रवेशे प्रथमः परिच्छेदः ॥
- - पृ० ३. पं० २३. 'तद्रव्यपर्याया'-तुलना-"तत्त्वं त्वनेकान्तमशेषरूपम्" [युक्त्यनुशा० श्लो० ४७] "अनेकान्तात्मकं वस्तु गोचरः सर्वसंविदाम्" [न्यायाव० श्लो० २९] 5 परीक्षामु० ४।१ । प्रमाणनय० ५।१ । प्रमाणमी० १११।३० । “द्रव्यपर्यायात्मार्थः इत्यकलङ्कदेवैरभिधानात्" [ तत्त्वार्थश्लो० पृ० ४२४ ]
पृ० ३. पं० २४. 'स्वलक्षणं सामान्यलक्षणं वा'-" तत्र यदर्थक्रियासमर्थं तदेव वस्तु स्वलक्षणमिति । सामान्यलक्षणं च ततो विपरीतम्।" [ प्रमाणसमु० टी० पू० ६ ] “यस्यार्थस्य सन्निधानासन्निधानाभ्यां ज्ञानप्रतिभासभेदः तत्स्वलक्षणम् । तदेव परमार्थसत् ।" 10 [न्यायबि० ॥१३, १४] "स्वमसाधारणं लक्षणं तत्त्वं स्वलक्षणम " न्यायबि० टी० पु० २२] "अर्थक्रियासमर्थ यत्तदत्र परमार्थसत् । अन्यत्संवृतिसत् प्रोक्तं ते स्वसामान्यलक्षणे ।।" [प्रमाणवा० ३।३ ] "अन्यत् सामान्य लक्षणम् । सोऽनुमानस्य विषयः ।" [ न्यायबि० १११६, १७ ] . . . 'सामान्येन लक्षणं सामान्यलक्षणम् , साधारणं रूपमित्यर्थः।” [ न्यायबि० टी० पृ० २४ ] “यदाह-न हि स्वसामान्यलक्षणाभ्यामपरं प्रमेयमस्ति, स्वलक्षणविषयं प्रत्यक्षं 15 सामान्यविषयमनुमानमिति । यदा साक्षाज्ज्ञानजननं प्रति शक्तत्वेन प्रतीयते तदाऽसौ स्वेन रूपेण लक्ष्यमाणत्वात् स्वलक्षणम् । यदा तु पारम्पर्येण शक्तता तस्यैव प्रतीयते तदा सामान्यरूपेण लक्षणमिति सामान्यलक्षणम्।" [प्रमाणवार्तिकालं.लि. प०२७३]
___ तुलना-"न हि बहिरन्तर्वा स्वलक्षणं सामान्यलक्षणं वा तथैवोपलभामहे यथैकान्तवादिभिराम्नायते ।” [ अष्टश०, अष्टसह० पृ० १७५ ]
20 पृ० ४. पं० ३. 'अर्थक्रिया'-सौगतैः नित्यपक्षस्य असत्त्वसिद्धयर्थं 'क्रमयोगपद्याभ्यामर्थक्रियाकारित्वाभावात् ' इति हेतुः प्रयुज्यते । तथाहि-"यदि न सर्वं सत् कृतकं वा प्रतिक्षणविनाशि स्यादक्षणिकस्य क्रमयोगपद्याम्यामर्थक्रियाऽयोगात् अर्थक्रियासामर्थ्यलक्षणमतो निवृत्तमित्यसदेव स्यात् ।" [वादन्याय पृ०७] "क्रमयोगपद्याभ्यामित्यादि-नैव प्रत्यक्षतः कार्यविरहाद्वा शक्तिविरहोऽक्षणिकत्वे उच्यते किन्तु तद्वथापकविरहात्; तथाहि-क्रमयोग- 25 पद्याभ्यां कार्यक्रिया व्याप्ता प्रकारान्तराभावात् । ततः कार्यक्रियाशक्तिव्यापकयोः तयोरक्षणिकत्वे विरोधानिवृत्तेः तद्वथाप्तायाः क्रियाशक्तरपि निवृत्तिः इति सर्वशक्तिविरहलक्षणमसत्वमक्षणिकत्वे व्यापकानुपलब्धिराकर्षति विरुद्धयोरेकत्रायोगात् । ततो निवृत्तं सत्त्वं क्षणिकेब्वेव अवतिष्ठमानं तदात्मतामनुभवति इति यत् सत् तत् क्षणिकमेव ।" [हेतुबि० टी० लि. पृ० १४२ B.] ' क्रमेण युगपञ्चापि यस्मादर्थक्रियाकृतः। न भवन्ति स्थिरा भावाः निःस- 30 वास्ते ततो मताः॥" [तत्वसं० पृ०१४३ ] क्षणभंगसि० पृ० २० । इत्यादि।
नित्यवस्तुवादिभिः अनेनैव हेतुना क्षणिकेर्थक्रियाऽभावः प्रतिवन्द्या प्रसाध्यते । तथाहि-"क्षणिकस्यापि भावस्य सत्त्वं नास्त्येव सोऽपि हि । क्रमेण युगपद्वापि न कार्यकरणे क्षमः॥" [न्यायमं० पृ० ४५३] न्यायवा० ता० टी० पृ० ५५४ । विधिवि० न्यायकणि० पृ० १३० ।
तत्त्वसंग्रहे 'क्षणिकेष्वपि इत्यादिना भदन्तयोगसेनमतमाशंकते' इत्युक्त्वा 'क्षणिकोऽपि 35 १८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org