________________
१३८
लघीयत्रयस्य
[पृ० ४. पं०५भावः क्रमेण युगपद्वा न अर्थकियां कर्तुं क्षमः' इति मतं पूर्वपक्षीकृतम् । तथाहि-"क्षणिकेध्वपि भावेषु ननु चार्थकिया कथम् । क्रमेण युगपञ्चापि यतस्तेऽर्थक्रियाकृतः। न भवन्ति ततस्तेषां व्यर्थः क्षणिकताश्रयः ।।" [ तत्त्वसं० पृ० १५३ ]
जैनैः तेनैव हेतुना सर्वथा क्षणिके नित्ये च अर्थक्रियाकारित्वाभावं प्रसाध्य कथञ्चि5 नित्यानित्यात्मन्यर्थे अर्थक्रियाकारित्वं संसाध्यते । द्रष्टव्यम्-शास्त्रवा० श्लो० ४३७ । अष्टसह० पृ०२०२ । प्रमेयक० पृ० १४७'A. न्यायकुमु० पृ० ३७९ ।
समुद्धृतेयम्-न्यायवि० वि० पृ० ५२७ A. प्रमाणमी० पृ० १४ ।
पृ० ४. पं० ५. 'अर्थक्रियासमर्थ-"अर्थक्रियासामर्थ्यलक्षणत्वाद्वस्तुनः"[न्यायबि० ॥१५ ] प्रमाणवा० ३।३।। 10 पृ० ४. पं० ६. 'स्वभूतिमात्रम्'-"तथा-क्षणिकाः सर्वसंस्काराः स्थिराणां कुतः क्रिया । भूतियैषां क्रिया सैव कारकं सैव चोच्यते ॥ [ बोधिचर्या० पं० पृ० ३७६ ]
पृ० ४. पं० ७. 'विषयाकारस्यैव'–पूर्वपक्षः-"अत्रापि फले विषयाकारतैव प्रमाणम् । यदाह आचार्यः-नन्वव्यतिरेकाद् ग्राहकाकारोपि कस्मान्न प्रमाणम ? अत्रोच्यते
तदार्थाभासतैवास्य प्रमाणं न तु सन्नपि । ग्राहकात्माऽपरार्थत्वाद्वाह्येष्वर्थेष्वपेक्ष्यते ॥" 15 [प्रमाणवातिकालं. पृ० ७० ]
इति प्रमाणप्रवेशे द्वितीयः परिच्छेदः ।
- - पृ० ४.पं० २३. 'ज्ञानमायं-अस्यां कारिकायां ग्रन्थकारः मतिस्मृतिसंज्ञेत्यादि सूत्रे [ तत्त्वार्थसू० १॥ १३ ] अनर्थान्तरत्वेनोक्तानां मत्यादीनाम् अवस्थाविशेषापेक्षया मतित्वं श्रुतत्वञ्च निरूपयति ।
अत्र व्याख्याभेदः-प्रभाचन्द्राः “किं यत् नामयोजनात् जायतेऽविशदं ज्ञानं तदेव श्रुतमुतान्यदपि ? इत्याह-प्राङ्नामयोजनात् । नाम्नः अभिधानस्य योजनात् पूर्वमुपजायते यदस्पष्टं ज्ञानं तच्छुतम् नामयोजनाजनितार्थास्पष्टज्ञानसाधर्म्यात् इत्यभिप्रायः । 'चिन्ता च' इत्यत्र चशब्दो भिन्न प्रक्रमः 'शब्दानुयोजनात्' इत्यस्यानन्तरं द्रष्टव्यः। तेन न केवलं नाम
योजनात् पूर्वं यदस्पष्टं ज्ञानमुपजायते तदेव श्रुतं किन्तु शब्दानुयोजनाच्च यदुपजायते तदपि 25 श्रुतमिति संगृहीतं भवति ।" [न्यायकुमु० लि. पृ० २२२ B. ] इत्यादिसन्दर्भेण स्मृत्यादिज्ञा
नान्युभयथा शब्दयोजनात् प्राक् अनन्तरञ्च श्रुतेऽन्तर्भावयन्ति । कारिकायामायातस्य आद्यशब्दस्य कारणार्थकताञ्च सूचयन्ति ।
विद्यानन्दास्तु-शब्दयोजनात् प्राक् मतिज्ञानादाद्यादाभिनिबोधिकपर्यन्तज्ञानानां मतित्वं शब्दानुयोजनाञ्च तेषामेव श्रुतत्वं स्वीकुर्वन्ति । तथाहि-"अत्र अकलंकदेवाः प्राहुः-ज्ञानमाद्यं 30 स्मृतिः संज्ञा . . . . 'तत्रेदं विचार्यते-मतिज्ञानादाद्यादाभिनिबोधिकपर्यान्ताच्छेषं श्रुतं शब्दानु
योजनादेवेत्यवधारणम् , श्रुतमेव शब्दानुयोजनादिति वा ? ( पृ० २३९ ) इत्युक्ता मतिः प्राङ्नामयोजनात् । शब्दानुयोजनादेव श्रुतमेवं न न बाध्यते" [ तत्त्वार्थश्लो० पृ० २४१]
सन्मतिटीकाकारास्तु विद्यानन्दाभिमतव्याख्यानमेव प्रतीयन्ति; तथाहि-"अत्र च यत् शब्दसंयोजनात् प्राक स्मृत्यादिकमविसंवादिव्यवहारनिर्वर्तनक्षम प्रवर्तते तन्मतिः, शब्दसंयोज35 नात् प्रादुर्भूतं तु सर्व श्रुतमिति विभागः ।" [सन्मति० टी० पृ०५५३] षड्द० बृह० पृ०८४ B.
00
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org