________________
कारि० ५३-५५.] ६. षष्ठः प्रस्तावः
११३ पूर्वापरस्वभावाप्तिपरिहारयोः साध्यसाधनभावः । श (स)कलशक्तिविरहिणोऽवस्तुत्वे तदुपादानविच्छेदः, प्रकृतिविकारनान्तरीयकत्वादान्तरप्रसूतेः । त्रिलक्षणं प्रतिक्षणमविकल्पितं विकल्पलक्षणम्, अन्यतरव्यतिरेकेऽनुपपन्नम् । समुदायेऽसङ्करप्रसङ्गः । एकशः तल्लक्षणान्वये भेदकल्पनानर्थक्यम् । तदयम् उत्पाद एव तिष्ठति, नश्यति । नाशयेव तिष्ठति,उदेति । स्थितिरेव नश्यति उदेति ॥छ॥
प्रकृताऽशेषतत्त्वार्थप्रकाशपटुवादिनः। विब्रुवाणोऽब्रुवाणो वा विपरीतो निगृह्यते ॥५३॥
५८. नित्य आत्मा कथमन्यथा कृतक इति ? न्यूनतया किलायमपि अस्मात् प्रत्यवस्थातुमकृतज्ञः स्वयमवयवान् कलयति । स्यादजग्रं परापेक्षमुदयं प्रलयं प्रति।
10 अभावस्थानपेक्षत्वं भावस्य परिनिष्ठिते ॥५४॥
५६. न खलु अकृतकस्य नित्यत्वम् । उत्पादविगमक्रियाभावस्यैव क्षणिकस्यानपेक्षत्वम्। सिद्धासिद्धयोः तदयोगः । स्वयमात्मलाभं प्रति अपेक्षितपरपरिस्पन्दं नित्यं कथमकृतकम् ? सर्वदेशकालादिसम्बन्धसातत्ये तत्कृतोपकारापेक्षम् । व्यतिरेकेऽनवस्था, सम्बन्धासिद्धिः। स्वयमात्मलाभस्य कथश्चिद् व्यपदेशः। नित्यानित्ययोरचलयोः 15 अनुपकारेऽपि सत्स्वभावानतिक्रमाविशेषः । ‘कृतकाकृतकयोः नित्यानित्यस्वभावप्रतिषेधः' इति दूषणोद्भावने भूयस्तथैकान्तप्रतिषेधे श(स)कलकलाकलापसमाश्लेषजात्यन्तरप्रतिपत्तिनान्तरीयके प्रकृतसाधने परं पराक्रमते । तथाऽनित्यं कृतकत्वादित्यत्रापि सर्व समानम् । अविचालिनं (चलिनां) क्रियानिवृत्तिः, स्वभावान्तरलक्षणत्वात् सत्तायाः। तथाऽप्रतिपादने साधनदूषणसामर्थ्याऽपरिज्ञानम् । अज्ञाताऽकिश्चिात्क- 20 राभिधानेऽपि जयाभावः प्रकृतसाधनशक्तिवैगुण्येन ।
साध्ये परतिरस्कारो जल्पः तच्छक्तितो जयः। तत्र मिथ्योत्तरं या (जा) तिः यथाऽनेकात्मविद्विषाम् ॥५॥
६०. सर्वमनेकान्तात्मकं सत्त्वात् इत्यत्र (वा) रेकाः प्रत्येकमाहोस्वित् समुदितम् ? सिद्धसाधनम् सर्वस्य अनेकात्मकताविगानम् । एकात्मकत्वप्रतिषेध (धे) 25 विरोधः। क्वचिदेकताऽभावे अनेकत्वाऽसिद्धिः। अथ एकैकशः एकात्मकत्वम् अन्यथा नानात्वम् । अधिकरणं प्रतिज्ञान्तरं पुनरकिश्चित्करम् । अथ एकत्वविधेः सामानाधिकरण्यम्; उभयदोषप्रसङ्गःसाध्यसाधनसम्बन्धासिद्धिः अथ तादात्म्यम् ; सङ्करः, परस्परानुप्रवेशः। विशेषे नैकाधिकरणत्वम् । संश्लेषे पुनरनवस्था। अतो निरू (रु) पाख्यतया
१ पत्र "रोयः" ( सिद्धहेम० १-३-३६ ) इत्यनेन नाशः + एव = नाशयेव इति ज्ञेयम् ।
१५
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org