________________
११४
प्रमाणसङ्ग्रहे
[ कारि० ५६. खपुष्पवत् प्रत्येकमनेकात्मनि संशयः क्वचिद् ऊर्ध्वतादिवत् । तादात्म्यनिर्णये परस्परपरिहारे (र) स्थितिः एकानेकस्वभावयोः निमित्तभेदात् । निष्प्रत्यनीकत्वे वैयधिकरण्यात्। उभयदोषे सदुभयोपयोगेन भेदसंहारे साङ्कर्येण व्यवस्था मा भूत् । तदनयोरेकस्यापि कस्यचिद्रूपस्य अभावात् स्वरूपस्यातद्भाविनः स्वनियतस्याऽभावात् सर्वव्यवहार5 सङ्करः । तदतिशये व्यतिरेकादुमयाभावः । एकमनेकात्मकं स्ववचनविरुद्धम् ।
शबलाकारज्ञानाभावात् । प्रत्यक्षविरुद्धम् ; कस्यचिदेकस्यानुपलम्भेन । संहारसूत्रनीलादेरपरं न मेचकादिकं प्रमेयम् । तद्बुद्धेरपि तद्रूपत्वे तथाभावः, तदनेकात्मकत्वविरुद्धं द्रव्यान्तरवत् । यदेकं तदेकात्मकमेव नानात्वविरुद्धं तदेकांशवत् ,
सदत्यये धर्मनैरात्म्यम् । तथोपलब्धिः इत्यसिद्धम् । वेद्यवेदकैकाकारज्ञानेऽपि अनैका10 न्तिकत्वम् , यथोपलम्भं भावस्वभावनियमाभावः स्वमवत् । तथोपलम्भस्य तद्भावनियम इष्टविघातकृत् । परिणामविघातः तदन्यथोपलम्भाभावः, साधनान्तरं तदपि प्रकरणसमम् , तथाऽन्यथा सम्भवसमारेकतः प्रक्रियाप्रवृत्तेः । नहि दृष्टाद् गरिष्ठमिष्टं
यतोऽयं तथादर्शी प्रमापणीयः। साध्यसाधनव्यवस्थायां पुनः सन्देहो यथा किंश्वि _ (खि) दयं स्थाणुः स्यात् इति । निपातस्य पूर्वप्रयोगनियमे विरुद्धश्च परनियमोपलब्धेः। 15 उच्चैदेशेने व्यभिचार इत्यनेकवा (धा) जञ्जपूके परस्य तद्विप्रतिपत्तौ अप्रतिपत्ती
प्रकृतार्थविधानप्रतिषेधविधुरे गुणदोषविशेषामवस्थातो (१) जयपराजयाऽसम्भवे राजकुलवत् जल्पानारम्भेऽपि निग्रहस्थानम् आकस्मिकम् , अतिशयान (अतिशायने) कथमस्थानं स्यात् । भूतदोषोद्भावनेऽपि तत्त्वं प्रतिपित्सवो निगृह्यते (न्ते ) सन्मार्ग
स्थायिनो वा प्रस्तुतानुपयोगप्रलापैरिति प्रकृतार्थप्रत्यायने वाग्दोषेऽपि जल्पाकं 20 विजयते, यथाऽनित्यः सत्त्वात् इति ।
असिद्ध [:] सिद्धसेनस्य विरुद्धो देवनन्दिनः।
द्वेधा समन्तभद्रस्य सत्त्वादिरचलात्मनि ॥५६॥
६१. यावान् कश्चित्स्वभावो मिथ्यैकान्ते स सर्व आश्रयासिद्धः। तदत्यये तेषां च तत्राभावः तदात्मकत्वात् । नहि अस्ति सम्भवः यनिरंशो भावः परस्पर25 विश्लेषविघातात् तत्रासिद्धिः अनेकान्तसिद्धिः। तत्प्रतिविधानं हि तत् , क्वचित् कश्चित् प्रसिद्धो धर्मः प्रतिपक्षापेक्षी । तदतत्परिणामलक्षणोऽर्थः स्वभावान्तरविरोधी परस्परविवेकस्थितेः अर्थान्तरवत् । तदयम् अन्तरङ्गबहिरङ्गप्रत्यनीकस्वभावप्रतिक्षेपविकलतया विरुद्धम् । व्यभिचारी प्रभवसामान्यसहचरप्रत्यासत्तिविप्रकर्षयोरपि तदर्थान्तरभावयोः तथापरिणामव्यवस्थायाम् । साध्यसाधनभेदेऽपि तादात्म्यम् । 30 निष्कलस्य तथाप्रतिभासविक्रियाविरोधः । गुणपर्ययवद्रव्यम् । व्यतिरेके पृथगुपलम्भसहभावेऽपि समवायिनो नैकयोगक्षेमलक्षणो गुणभावः । तादात्म्ये कथञ्चि
१ एतदनन्तरं ता० प्रतौ 'व्यतिरेके पृथगुपलम्भसहभावेऽपि समवायिनो' इति पाठः पुनलिखितः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org