________________
११५
कारि० ५७-६१.]
६. षष्ठः प्रस्तावः द्भेदः स्पर्शादेः संख्यादिवत् । प्रत्ययभेदिनोऽप्येकत्वं सामग्रीभेदेन कार्यकारणवत् । वर्णसंस्थानादेरकत्वे विप्रतिभासः, क्वचिद् दुरासन्नादिकरणगुणवैगुण्यतारतम्यभेदेन मुक्तादिविशेषस्य रूपज्ञानस्य प्रतीतिः, अन्यथा देशादिनियमेन चन्द्रादौ तथा संवादः कथञ्चिदविप्रतिसारः सामग्रीवैकल्येऽपि न स्यात् । वितण्डात्मतिरस्कारः सं (स) वैतण्डिको मिथ्यादृष्टिः नियमेन परतिरश्चिकीर्षया स्ववचनप्रतिघाती यथा सदस-5 दात्मा क [श्चित् ।
स्वभावपरभावाभ्यां वाचोवृत्तिरनेकधा । ६२. यदि स्वरूपेण आस्ति पररूपेणापि भावस्य कचिदभावविरोधः। चेतनेतरविकल्पेऽपि न वस्तुविकल्पः। सत्ताविशेषेण प्रमाणस्य अप्रमेयत्वे स्वरूपं न स्यात् । प्रमेयस्याऽप्रामाण्येऽपि संवादाविशेषेण वेद्यवेदकयोः परस्परपरिहारेऽपि बहिर- 10 न्तश्च वेद्यता । विशेषेण व्यापारनिर्भासस्य केवलस्य दर्शनात् आत्मनः स्वयम् आत्मान्तरेण सत्त्वम् अनन्यवेद्यनियमात् । निर्व्यापारस्य व्यापारतो वृत्तिः उदयस्थितिसंहारविरहे एकाकारस्याऽदृष्टौ पुनः अनेकस्य तथा विरोधेन भावलक्षणवैधुर्यम् । सर्वे (4) विकल्पातीतं तत्त्वमिति स्वामेव कृति स्ववाचा विडम्बयति । यदि पररूपेण असत् तद्विविक्तस्वरूपस्य कथञ्चिदनुपलब्धौ पररूपाऽविशेषेण स्वरूपेणापि 15 इतिः सोऽयमात्मानं विडम्बयतितराम् । संवृत्या स्वपरपक्षसाधनदृषणव्यवस्था समारभयन् सुतरां विडम्बयति परमार्थविपर्ययेण। तथाऽपरपर (तथा पर) प्रसिद्धप्रमाणेन 8 २.) "नाप्रत्यक्ष प्रमाणं न परलोकादिकं प्रमेयम् अननुमानमनागमंच" इति लोकविसंवादशास्त्रागमनिकायादयोऽधिकरणभेदेपि केवलम् आत्मोत्कर्षणार्थ लाभलोकपूजाख्यातिहेतवो वाग्वृत्तयोऽनेकधा, वर्णपदवाक्यानुपूर्वीनियमः तत्त्वप्रति- 20 पत्तेरनङ्गम् , अन्यत्र आहोपुरुषिकातः । कल्पनातोऽनवस्था ।
शून्यसंवृतिविज्ञानकथानिष्फ (क) लदर्शनम् ॥५॥ सश्चयापोहसन्तानाः श (स) प्तैते जाद्य (ज्य) हेतवः । प्रतिज्ञाऽसाधनं यत्तत्साध्यं तस्यैव निर्णयः ॥५८॥ यदहश्यमसंज्ञानं त्रिकमज्झी (ही) कलक्षणम् । प्रत्यक्षं निष्कलं शेषं भ्रान्तं सारूप्यकल्पनम् ॥५९॥ क्षणस्थानमसत्कार्यमभाष्यं पशुलक्षणम् । प्रेत्यभावात्ययो मानमनुमानं मृदादिवत् ॥६०॥ शास्त्रं सत्यं तपो दानं देवतानि (ने) त्यलौकिकम् । शब्दः स्वयंभुः सर्व [त्र] कार्याकार्येष्वतीन्द्रिये ॥११॥
30
25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org