________________
प्रमाणसङ्ग्रहे
[ कारि० ५२.
५५. प्रागुत्पत्तेः असतः पूर्व प्रत्यनपेक्षा, निष्पन्नस्यापि सतः स्वयमनाधेयातिशयात्मनो भावान्तरवत् । एतेन उभयावु (नु) भयविकल्पः प्रतिव्यूढः । सत्तासम्बन्धेऽपि समानः प्रसङ्गः । कालाद्यनपेक्षिणः सर्वतो व्यावृत्तेः स्वतन्त्रो भावः स्यात् । अपेक्षितपरव्यापारो हि भावः कृतकः । तत्कृतमुपकारमात्मसात्कुर्वतः तन्निय5 तवृत्तेः सर्वथा तत्कार्यतया प्रतिक्षणं भेदिनः तद्भावाऽव्यवसायतया तदपेक्षणम् । इतरवा ( था) कारणस्यापि सतः सामर्थ्य सकृत् कार्यजनने विश्वमक्रममकार्यकारणमनुपाख्यम् । सति समर्थे तत्राभवत् नियमेन पश्चात् स्वयं भवत् किमानन्तर्यमपेक्षते ? तदसामर्थ्याविशेषेण प्रागपि स्यादभावानन्तर्याविशेषेण । तदयं प्रभवसमर्थां सतीं विहाय मृतां पुत्राय कामयते । सम्भवत्यपि परिणामिनां शक्तिविचित्रता 10 अभावविलक्षणत्वात् । विरुद्धधर्माध्यासेऽपि नानैकव्यवस्था नानार्थैकज्ञानवत् । तदयं भावः स्वभावेषु कुण्डलादिषु सर्पवत् ।
११२
15
५६. तत्र स्पष्टनिर्भासो विकल्पः सन्निधानापेक्षी भावनातो निवृत्तिः सुखादिवत् । अन्यथा स्मरण प्रत्यभिज्ञाऽभावः । तदेवं परस्परपरिणामपरिग्रहविवर्त्ताहितविविधपर्यायैरवस्थान्तरमनुभवति || छ ||
उत्पादविगमधौत्र्यं सत् प्रत्येकमसम्भवात् ॥५२॥
$ ५७, नाशस्यापि कारणे सिद्धं कृतकत्वमुत्तरोदयाऽविशेषेण । पूर्वापरावधि - परिच्छिन्नसत्तासम्बन्धेऽपि तादात्म्याऽनतिक्रमः । तन्न उत्पत्तिसंहारौ स्थितिरहितौ स्याताम् । एवं प्रतिक्षणम् उत्पादविगमधौव्ययुक्तं सत् । सकृदपि अतत्स्वभावस्य तन्नियमविरोधः । नाशश्वानपेक्षायां न कदाचिद्भवेत् पूर्वोत्तराविशेषेण । स्वतो 20 हेतोर्नश्वरस्थास्नुरुदेति न पुनरनपेक्षः । परस्परपरिणामाहितविशेषपरिग्रहेऽपि स्वरसवृत्तेरप्रतिघातः विषयसन्निधानाहितविशेषविज्ञानवत् । स्वरसभङ्कुरस्यापि विरोधि - प्रत्ययविहितविशेषलक्षणेन निवृत्तिं पश्यामः । सदसतोः पूर्वापरभावनियमः । कथञ्चित् कार्यकारणवत् अचलस्याप्यव्ययादुत्तरीभवति । तादात्म्यपरिणामेन
प्रतिभासनात् । सर्वस्य अनेकान्तात्मकत्वे तदतद्वयवस्था तथापरिणामात् । 25 नहि तथा अपरिणतं तत् विप्रतिषेधात् । प्रसिद्धप्रभवसादृश्यप्रत्यासत्तिविप्रकषयोरपि नानैकस्वभावनियमः पितापुत्रवत् । सन्तानस्य अन्यथासम्भवात् । एकप्रत्यवमर्शविशेषव्यवस्थायाम् एकत्वविधानम् । विभ्रमकल्पनाsनानैकव्यवस्था, नैकयोगक्षेमलक्षणमेकम् अतिप्रसङ्गात् । विरुद्धधर्माध्यासाद् बहिरन्तर्मुखप्रतिभासविज्ञानैकतानिवृत्तिः । अर्थज्ञानविवेकप्रतिभासयोः अदृश्येतरयोरविरोधे सूक्ष्म30 स्थूल कलाकलापस्य प्रतिक्षणमुदयस्थितिसंहारमनुभवतः क्रमवृत्तेर प्रतिघाते विवेककल्पनाविवेकः । आदौ दृष्टापरस्वभावाविघातेन पुनः क्षयदर्शनात् सिद्धेः (द्धः) अन्ताद्योः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org