SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ कारि० ४६-५१.] ६. षष्ठः प्रस्तावः १११ वेदिनि सम्भवी ? प्राग् विपर्यासवद्वत्तस्यानिराकरणं सर्वत्र समानम् । साध्ये गुणदोषयोः कस्यचिदन्वेषणं सिद्धसाध्यार्थयोः सिद्धासिद्धाऽकिश्चित्करविस्तरा विरुद्धादयः । अन्यथासम्भवासिद्धः साधनः प्रतिरूपकः । विरो (रु) द्धोऽकिश्चित्करो ज्ञातः प्रत्येकमिति सङ्ग्रहः ॥४६॥ विरुद्धाव्यभिचारी स्यात् विरुद्धो विदुषां पुनः। प्रकृया (प्रक्रिया) व्यतिरेकेण सर्वे सम्मोहहेतवः ॥४७॥ तथाहि सर्वहेतूनां भावना सत्त्वमीक्षते । स विरुद्धोऽन्यथाभावाद् असिद्धः सर्वथात्ययात् ॥४८॥ व्यभिचारी विपक्षेऽपि सिद्धेऽकिश्चित्करोऽखिलः। अज्ञातः संशयासिद्धव्यतिरेकान्वयादितः॥४९॥ 10 विरुद्धाव्यभिचारी स्यादर्थमात्रावधारणात् । अन्ताप्तावसिद्धायां बहिरङ्गमनर्थकम् ॥५०॥छ॥ इति प्रमाणसङ्ग्रहे पञ्चमः प्रस्तावः . . ६. षष्ठः प्रस्तावः 16 [५. समर्थवचनं वादः शाश्वतं सत्क्रियाश्रयात् ।] ५४. समर्थवचनं वादः । प्रकृतार्थप्रत्यायनपरं साक्षिसमक्षं जिगीषतोरेकत्र साधन-दूषणवचनं वादः। शाश्वतं सत् क्रियाश्रयात् । 'सर्व नित्यं कृतकत्वात , यत् कृतकं तन्नित्यं युक्तं यथा आत्मा, तथा च सर्व कृतकम् , तस्मानित्यम्' 'इति साधनाङ्गवचनोपालम्भच्छलेन स्वामेव स्थितिं विधुरयं ( यन् ) सर्वथानर्थनिबन्धिनो विजयते । विचित्रा हि परप्रत्यायनोपायाः स्वनिश्चयवत् । प्रत्यक्षेऽपि कुतश्चित 20 साधनसम्बन्धप्रतिपत्तेः । सम्मोहव्यवच्छेदेन तत्त्वावधारणे स्वयं साक्षात्कृतेऽपि साधनवचने कथञ्चिनिश्चित्य विचारे विनिश्चयोपपत्तौ साध्यधर्मसम्बन्धदर्शनस्य प्रतिज्ञाविशेषेण तदन्यतरवचनप्रतीतौ वाचकम् उपनयादिसमम् । अन्यथा साध्यसमम् । तदेवमपि 'युक्तं न वा' इति तर्कय तावदक्षिणी विस्फाल्य । यदि युक्तम्। किंकृताक[त] नियमेन ? तावत् प्रयोक्तव्यं यावता साध्यसाधनमधिकरणं प्रत्येति ॥छ।। नहि तैः सर्वथाऽसिद्धं कर्तुं युक्तं निरन्वये ॥५१॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002504
Book TitleAkalanka Granthtrayam
Original Sutra AuthorBhattalankardev
AuthorMahendramuni
PublisherZZZ Unknown
Publication Year1969
Total Pages390
LanguagePrakrit
ClassificationBook_Devnagari & Philosophy
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy