________________
११०
प्रमाणसङ्ग्रहे
[ कारि० ४४-४५. विज्ञप्तिमात्रसिद्धेः स्यात् । अतद्रूपस्याप्यतत्परिच्छेदव्यतिरेकनियमेन विषयाकाराविशेषे विज्ञानसन्तानभेदवादो निरालम्बः। तद्विशेषो विभ्रमविवेकनान्तरीयकः । नास्ति सर्वज्ञोऽनुपलब्धेः इति स्वप्रमाणनिवृत्तिरन्यथाऽपि । सर्वोपलम्भनिवृत्तिरसिद्धा । सम्भवेऽपि निर्णेतुमशक्तौ तादृशो विप्रतिषेधे तत्प्रतिषेधयोः स्वयमुफ्लम्भात्मकत्वाञ्च 5 स्वाश्रययोः सन्देहे सन्देहः ।
सिद्धे [5] किश्चित्करो हेतुः स्वयं साध्यव्यपेक्षया ।
५१. शब्दविनाशादौ सत्त्वेन सिद्धे सिद्धोऽपि कृतकत्वादिः प्रत्यक्षाग्नौ धूमवत् । विशेषाधानमर्थान्तर (?) तत्र धूमदर्शिनः प्रत्यक्षवत् साक्षात्कृतेऽपि कुतसिद्वि
(श्चिद्वि) पर्यासनिवृत्तिरज्ञातोऽहेतुः । साध्येऽपि कृतकत्वादिः अज्ञातः साधनाभासः । 10 तदसिद्धलक्षणेन अपरो हेत्वाभासः, सर्वत्र साध्यार्थासम्भवाभावनियमासिद्धेः
अर्थज्ञाननिवृत्तिलक्षणत्वात् । अनयोरर्थेऽपि विरुद्धाव्यभिचारिणः सम्भवः, यथा नित्यो भावः तद्भावं प्रत्यनपेक्षणात् । तद्धेतूनामसामर्थ्य तद [त ] त्कारणासम्भवः । कादाचित्कत्वमपेक्षातः स्यात् । नहि भावादव्या (दन्या) थक्रिया। कादाचित्कत्वमयुक्तः (क्लम्)स्वमादिवत् । कचित् प्रतिभासभेदो विरुद्धधर्माध्यासो वा ग्राह्यग्राहकवत् । न चापरं 15 भेदलक्षणमित्यविविक्तं तत्त्वम् । स्वतो जन्मनि सदसतोः प्रभवविरोधः । परतः तुल्यः
पर्यनुयोगः। एतेन उभयानुभयविकल्पाः प्रत्युक्ताः। तत्र नियापारेषु व्यापारकल्पनायां परत्र को [s] परितोषः ? नित्यसन्निधाने कल्पनागौरवपरिहारेण भावधर्मपरिसमाप्तेः । तथा सर्वमनित्यमर्थक्रियाकारित्वात् । तदभावे निरुपाक्ष (ख्य) त्वम् । पूर्वापरस्वभावपरिहारावाप्तिरयुक्ता तदवस्थस्य । न तावत् क्रमेण कस्यचिदे20 कत्र करणाकरणविरोधात् । पूर्वमसमर्थ पश्चादपि । सहकारिकारणवैकल्यं समानम् ।
तदपेक्षाऽयोगः। तत्कृतमुपकारमात्मसात्कुवेतः स्वभावभेदः। अन्यकरणे असम्बन्धाऽनवस्था। न सर्वथा नित्यमुपकर्तुं युक्तम् । अकिश्चित्करोऽनपेक्ष [:] स्यात् । नापि यौगपद्येन तत्करणस्वभावस्य पुनस्तदकरणेऽपि स्वभावहानिः । सहकारिवैक
ल्यादि समानं प्रत्यभिज्ञानेऽपि। सदृशापरापरोत्पत्तिविप्रलम्भानैकत्वम् । तादृशं भेद26 नान्तरीयकम् । न चापरं भेदलक्षणमिति । स्वभावप्रतिबन्धे नैतावन्योन्यमतिशयाते । समुदायोऽहेतु [:] मिथ्यैकान्तपरिग्रहात् ।
सर्वथान्योन्यसम्बन्धे विरुद्धं श (स) कलात्मनि ॥४४॥ ६५२. प्रत्येकं सह वा सामान्यविशेषार्थसाधनः ।।
एकान्ताश्रये विरुद्धः तद्वेदिति सन्देहकृत् ।।
संशयात्विभावेऽपि साध्येऽकिश्चित्करोऽखिलः ॥४५॥ ६५३. किं वै व्यभिचारिणः सन्देहः सत्यप्यविनाभावे पक्षविपक्षयोः तद
80
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org