________________
१०६
कारि० १२-४३.]
५. पञ्चमः प्रस्तावः ४६. चलानां सुखादीनां सत्त्वं विरुद्धमचलात्मनि । प्रधानादौ तेषामनुप्रवेशो वा । चलात्मनि चैतन्यपरिणामिनि तदुभयत्र वृत्तेरनैकान्तिकम् ।
सहोपलम्भनियमः स्याद् भेदस्यापि साधकः ॥४२॥
४७. उक्तविघातकृद् द्रव्यपर्यायपरमाणूनां सहदर्शनम् , यथा भेदः, तदन्यथा विघातो भेदप्रतिषेधको न स्यात् । भेदमात्रस्य साधनात् । नहि सर्वचित्तानां 5 सहोपलम्भो[s]परः सहोत्पत्तेः। स्वभावान्तरविरोधकल्पनायां तथोपपत्तिः। सन्दिग्धा [:] कतुरम्मरणो(णा)दयः। सतः स्मृतेरभावो यद्विरुद्धः सर्वः सर्वज्ञः स्यात् । अन्यतमस्यापि सम्भवे तत्प्रतिषेधे विप्रतिषेधः । शास्त्रलिङ्गतः प्रतिपत्तावनियमः । तदविशेषण (षेण) वृत्तौ प्रत्यक्षेऽपि कार्यव्यभिचारः। सतो दर्शनसाकल्यनियमे स्मृतिर्न भवेत् । तदभावे मानान्तरासिद्धिः । स्वतः प्रामाण्यविप्रतिषेधे पुनरन्धपरम्परायां 10 न गुणोत्कर्षः। तदर्थसंवादस्मरणव्यतिरेकेऽपि सर्वथा साधकप्रमाणप्रतिक्षेपे च सन्देहः । इत्यनैकान्तिकभेदाः निश्चितसन्दिग्धव्यभिचारिणोऽनेकप्रकाराः ।
४८. त्रिलक्षणयोगेऽपि 'सर्वज्ञो न वक्तृत्वात्' इति पक्षधर्मस्य सपक्ष एव दर्शनात् स्वभावप्रतिबन्धेन प्रमाणान्तरं व्याप्तिः अयुक्तप्रतिपत्तिः, अतो न व्यापकानुपलब्धिर्व्य ( ब्धिव्य ) वस्था । तथा च न कश्चिद् विशेषः । तादृशवचनादिगुणो-15 पपत्तौ अन्तर्व्याप्ति (प्ते) रसिद्धावगमकत्वम् , तत्सिद्धौ अनन्वयेऽपि । न त्वसाधारणा हेतवः, तद्यथा नित्यः शब्दः श्रावणत्वात् । सर्वथाऽपरिणामिनः तदसम्भवैकान्तः, तत्र सर्वहेतूनामसाधारणत्वम् । साकल्येन व्याप्तिदर्शनेविप्रतिपत्तिः । अन्यथा प्रकृतेऽपि कथमुपसंहरेत् ? सर्वथा भावात् सन्देहेऽप्यन्यथाव्यस्तसंविदः।
20 ४६. आसिद्धः चाक्षुषत्वादिः । शब्दस्य परिणामेऽपि चक्षुरादिज्ञानमयुक्रम् । रूपादिविवर्तस्य तत्त्वव्यतिक्रमेण द्रव्यमनादिनिबन्धनं (निधनम् ) न शब्द. पर्यायो ( यः ) चाक्षुषत्वप्रसङ्गादिति हेतुलक्षणं पुष्णाति ।
[ ४. सहोपलम्भनियमोऽप्यन्योन्यार्थविदां विदाम् ॥४३॥]
६५०. सहोपलम्भनियमोऽपि अर्थज्ञानयोः अन्योन्यार्थविदां विदाम् । 25 यदेकार्थोपनिबद्धदृष्टयः परस्परज्ञानं परचित्तविदो वा तदर्थ नावि (नाव) श्यं संविदन्ति, बहिरसति तादृशो [s] सम्भवः । विभ्रमे कुतो विशेषः ? तथा सिद्धो हेतुः कुतश्चिद् ग्राह्यग्राहकविप्लवनिवृत्तेः विप्रतिषेधः । एवमसहानुपलम्भो व्यावृत्तिमात्रं शशविपाणयोरिव बाह्येतरपक्षयोरसिद्धः । सदसतोरसम्बद्धो (न्धो ) भेदाभावे भावसिद्धौ किं बादः ? तन्न एकोपलम्भनियमः, तदात्मकत्वे साध्याऽविशेषः । स्वोपलम्भनियमो 80
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org